________________
सिद्धान्तचन्द्रिका |
[ पूर्वकृदन्तप्रक्रिया ]
( २२८ )
( व्रते च ) स्यण्डिलशायी ॥
(सुबोधिनी) - ते च ॥ व्रतेऽर्थे णिनिः स्यात् ॥ स्थण्डिले शेते व्रतार्थमिति स्थण्डिलशायी । बहुलमाभीक्ष्ण्ये णिनिः । आभीक्ष्ण्यं पौनःपुन्यम् । क्षीरपायिण उशीनराः । एतत्सर्वमनुक्तसमुच्चयार्थकचशब्दानुवृत्तेर्लभ्यते ।
(क्किब्वनिबडाः) धातोरतीते काले शीले चैते ॥ ब्रह्महा । भ्रूणहा | वृत्रहा | सुकृत् । धर्मकृत् । पापकृत् । अग्निचित् । सोमसुत् । यज्वा । सरसिजम् । सरोजम् । संस्कारजः । प्रजा । अजः । द्विजः । परितः खाता परिखा ॥
(सुबोधिनी) - विनिबडाः॥ पुनः क्विब्वनिवड प्रत्ययानाह - कित्त्वाद् गुणो न । पित्त्वात्तुक् । डित्त्वाट्टिलोपः । इकार उच्चारणार्थः । वेरिति विलोपः । ब्रह्मभ्रूणवृत्रेषु कर्मसूपपदेषु हन्तेः क्विनान्यत्र । ब्रह्माणं हतवानिति । इनामिति दीर्घः । ब्रह्मा । भ्रूणं गर्भे हतवानिति भ्रूणहा । वृत्रं दैत्यं हतवानिति वृत्रहा इन्द्रः । कर्म कृतवानिति कर्मकृत् । पापं कृतवानिति पापकृत् । अग्निं चितवानिति अग्निचित् । पुत्र अभिषवे । सोमं सुतवानिति सोमसुत् । वनिपि तु यज देवपूजादौ । इष्टवानिति । नोपधाया इति दीर्घः। यज्वा । डप्रत्यये तु जनी प्रादुर्भावे । सरसि जातमिति सरसिजम् - संगजम् । सप्तम्या अलुक वा | संस्काराज्जात इति संस्कारजः । प्रकर्षेण जातेति प्रजा । आवत इत्या! | 'प्रजा स्यात्संततौ जने' इत्यमरः ॥ न जात इति अजः । समासे ना इत्यादादेशः । द्वाभ्यां जन्मः संस्काराभ्यां जात इति द्विजः । खन् खनने । परितः खातेति । आवत इत्या परिखा। -
0
( तत्त्वदी ० ) - विब्वनिब्डाः ॥ किपः सिद्धावपि पुनरुपादान नियमार्थम् । तेन हन्तेर्भूते ब्रह्मभ्रूणवृत्रेष्वेवेति । वनिपोऽपि पूर्वं वर्तमानार्थत्वात् पुर्नग्रहणं भूतेऽपि यथा स्यादित्येवमर्थम् । यज्वेति । इष्टवानिति वाक्यम् । प्रजा इति ॥ प्राणिजातस्य संरेषा । द्विज इति । 'मातुर्यदये जायन्ते' इति स्मृतेः ॥
( क्तक्तवतू ) धातोरतीते काले क्तक्तवतू एतौ स्तः ॥ भावकर्मणोः क्तः । स्नातम् । कृतः कटः । विष्णुर्विश्वं कृतवान् ॥
1
( सुबोधिनी ) - क्तक्तवतू ॥ कित्त्वाद् गुणो न । उकारा व्रितो नुमिति नुमर्थः । प्रत्ययो भावकर्मकर्तृषु भवति । क्तवतुः कर्तर्येव । ष्णा शँ चे । त्वयाऽस्नायि इति स्नातम् । अकारीति कृतः कटस्त्वया । अकार्षीदिति कृतवान् । अत्वसोः साविति दीर्घः ॥
( तत्त्वदी ० ) - क्तक्तवतू ॥ भावकर्मणोरिति । मण्डूका लुत्येदमनुवृत्तम् । क्तवतुस्तु कर्तरि परिशेषात् ॥ स्नातमिति ॥ अस्नायीति विग्रहः ॥ कृत इति ॥ अकारीति विग्रहः ॥ कृतचानिति ॥ आकार्षीदिति विग्रहः ॥ एवमन्यो विग्रहो यथावदवर न्तव्यः ॥