________________
[ पूर्वकृदन्तप्रक्रिया ] टीकाद्वयोपेता। (२२९) - (गत्यर्थादकर्मकाच कर्तरि क्तः) भावकर्मणोरपि गङ्गां गतः । स्थितः। अमान्तस्योपधाया दीर्घः क्ङिति झसे कौ च । शान्तः ।
दान्तः॥
(सुबोधिनी)-गत्यर्थादकर्मकाच्च कर्तरि क्तः॥गत्यर्थादकर्मकाच्च धातोःक्तः स्थाद्भावकर्मकर्तृषु ॥ अगमदिति गतो गङ्गां सः।लोपस्त्वनुदात्ततनामिति मलोपः । अस्थादिति स्थितः सः। स्थामीतीत्वम् ॥शमु दमु उपशमे। अशमददमदिति । 'अमान्त स्योपधायाः' इति दीर्घः। शान्तः । दान्तः ॥ (तत्त्वदी०)-गत इति । अगमदिति विग्रहः ॥
(श्लिषशीङ्स्थाऽऽसवसजनरुहजीर्यतिभ्यश्च ) रामः सीतामा'श्लिष्टः। शेषमधिशयितः । स्वर्गमधिष्ठितः । हरिमुपासितः । हरिदिनमुपोषितः। राममनुजातः । वृषमारूढः । जगदतुजीर्णः ॥
(सुबोधिनी)-श्लिषशीस्थाऽऽसवसजनरुहजीर्यतिभ्यश्च॥ एभ्यः कर्तरि क्तः भावकर्मणोश्च । श्लिष आलिङ्गने। शीङ् स्वने। ष्ठा गतिनिवृत्तौ । आस उपवेशने । वस निवासे। जनी प्रादुर्भावे ।रुह बीजजन्मनि प्रादुर्भावे च । न वयोहानौ । आधिपूर्वा णां शीस्थासामित्याधारस्य कर्मसंज्ञा । उपान्वध्यापूर्वस्यति वस आधारस्य कर्मसंज्ञा। आश्लिक्षदिति आश्लिष्टोराम सीताम्॥अध्यशयिष्टेति अधिशयितो हरिःशेषम्। अध्यष्ठादिति अधिष्ठितः स स्वर्गम् । स्थामीतीत्वम् ॥ उपासिष्टेति उपासितःसहरिम् ॥ उपावासीदिति । वसति क्षुधोरितीट। यजामिति संप्रसारणम् । घसादेरिति षः । उपोषितः स हरिदिनम्॥अन्वजनिष्टेति । जनसनखनामित्यात्वम् । अनुजातः स रामम् ।। आरुक्षदिति । होढ इति ढत्वम् । तथोर्ध इति तस्य धत्वं ष्टुत्वं च । ढिढो लोप इति ढलोपपूर्वदीपों । आरूढः स वृषम्॥अन्वजारीदिति । ऋत इरितीर्। 'बोर्वि हसे' इति दीर्घः। र इति तस्य नत्वम् । अनुजीर्णः स विश्वम्॥कर्मणि तुगता प्राप्ता गङ्गा तेन ॥ आश्लिष्टा सीता रामेण॥ अधिशयितः शेषो हरिणा॥ अधिष्ठितः स्वर्गस्तेन ॥उपासितो हरिस्तेन ॥ उपोषितं हरिदिनं तेन ॥ अनुजातो रामस्तेन ॥ आरूढो वृषस्तेन ॥ अनुजीर्णो विश्वस्तेन ॥
(तत्त्वदी०)-आश्लिष्ट इति ॥ सकर्मकत्वादप्राप्तौ वचनम् ॥ अधिशयित इति॥ अध्यशयिष्टेति विग्रहः ॥ . तो वा सेट् ॥ उदुपधात्सेट् क्तो वा कित् ॥ द्युतितम्-द्योतितम् । प्रमुदितः-प्रमोदितः साधुः॥ ___(सुबोधिनी)-क्तो वा सेट् ॥ उदुपधादविकरणादिट भावकर्मणोः सेट् क्तो वा कित्संज्ञः स्यात्॥ कित्त्वाभावे गुणः । युत दीप्तौ । अद्योति इति द्युतितं-द्योतितं तेन ।