________________
(२३०)
सिद्धान्तचन्द्रिका। [ पूर्वकृदन्तप्रक्रिया ] मुद हर्षे । प्रामादि इति प्रमुदितः प्रमोदितःसाधुः॥ उदुपधात् किम् । विदितम् ।भावकर्मणोः किम् । रुचितं वनम् । गत्यर्थादकर्मकादिति कर्तरि क्तः । सेट् किम् । कुष्टम् । कुष निष्कर्षे । अविकरणास्किम् । गुध्यतेर्गुधितम् ॥
(शीस्विदिमिदिक्ष्विदिधृषभूषपूङः सेटौ तक्तवतू कितौ न) शयितः। शयितवान् । प्रस्वेदितः। प्रस्वेदितवान् । श्वेदितः। श्वेदितवान् । र्षितः। र्षितवान् ॥ ___( सुबोधिनी )-शीस्विदिमिदिक्ष्विदिधृषभूषपृङः सेटौ तक्तवतू कितौ न ॥ अकित्त्वाद् गुणः । अशायष्टोत शयितः शयितवान् सः । कृत इतीट् । अनुबन्धनिर्देशो यङ्लुनिवृत्त्यर्थः । शेश्यितः।शेश्यितवान्। नुधातोरिति यः। किंच स्विदादीनामादीदित इतीणो निषेधे प्राप्ते, भावे कर्तरि चादित इति सेटकत्वम् । पूङः कित इतीनिषधे प्राप्ते पूङो वा कित इति सेटकत्वम् । जिष्विदा स्नेहनमोचनयोरिति भ्वादिरत्रं गृह्यते न तु 'जिष्विदा गात्रप्रक्षरणे' दिवादिः भ्वादिसाहचर्यात् । प्रास्वेदिष्टेति प्रस्वेदितश्चैत्रः । प्रस्वेदितं तेन । प्रस्वेदितवान् । जिधृषा प्रागल्भ्ये । प्रधर्षितः । प्रधर्षितवान् । प्रर्षितं तेन ॥
(मृषः क्षान्तौ ) मर्षितः । मर्षितवान् ॥ (सुबोधिनी)-मृषःक्षान्तौ ॥ मृषः सेटौ क्तक्तवतू कितौ न स्तः क्षमायाम!।। मर्षितः । मर्षितवान् ॥ क्षमायां किम् । अपमृषितं वाक्यम्। अविस्पष्टमित्यर्यः॥
(पूडो वा कितस्तस्येट) पवितः-पूतः । पवितवान्-पूतवान् ।। (सुबोधिनी)-पूङो वा कितस्तस्येट् ॥ पूङः परस्य कितस्तस्येवा स्यात् ॥ पूङ पवने । पवितः। पूतः॥
(कितः) उवर्णान्ताहवर्णान्तात् श्रिश्विभ्यां च पुरस्य कितस्तस्येण्न ॥ भूतः। वृतः। श्रितः। श्वयतेः संप्रसारणस्य दीर्घः किति ते । शूनः। वेञो हस्वः किति ते । उतम् ॥
(सुबोधिनी)-कितः॥ वुः से इत्यतो दुरित्यनुवृत्तम् ॥ श्रिश्विऋवर्णोवर्णान्तेभ्यः परस्य कितः प्रत्ययस्येन ॥ अभूदिति भूतः । वृ भक्तौ । वृज वरणे च । वृतः। श्रिञ् सेवायाम् । श्रितः। टु ओ श्वि इर गतिवृद्धयोः । यजामिति सम्प्रसारणम् । श्वयतेः संप्रसारणस्य दीर्घः। शूनः । वेज्ञ तन्तुसन्ताने । यजामिति संप्रसारणे वेजो ह्रस्वः। उतम् ।।
(तत्त्वदी०)-कित इति॥वुः सेरित्यतो वुरित्यस्यानुवृत्तेरुवर्णान्तादित्यादि । नैकस्वरादित्यतो नेति योगविभागात् ।। श्रिीश्विभ्यामिति च लभ्यते ॥