________________
[ पूर्वकृदन्तप्रक्रिया ] टीकाद्वयोपेता।
(२३१) (आदीदितः) आदित ईदितश्च क्तक्तवत्वोर्नेट् ॥ ( सुबोधिनी)-आदीदितः॥ आच्च ईच्च आदीतौ आदीतौ इतौ यस्य स आदीदित् तस्मादादीदितो धातोः क्तक्तवत्वोरिण्न स्यात् ॥ कृत इत्यस्यापवादः॥
(तत्त्वदी०)-आदीदित इति ॥ आच ईच्च आदीतौ इतौ यस्य तथा तस्मात् । कृत इति प्राप्तस्यापवादः ॥
( जीतां तक वर्तमानेऽपि) जीतां धातूनां मर्तिबुद्धिपूजार्थानां च वर्तमानेऽपि तक ॥ राज्ञां मतः इष्टः । बुद्धः॥
(सुबोधिनी)-जीतां नक् वर्तमानेऽपि॥जिरियेषां तेजीतस्तेषां मतिबुद्धिपूजार्थेभ्यश्च तक् स्यात् वर्तमानेऽर्थे । मतिरिहेच्छा बुद्धः पृथग् ग्रहणात् । राज्ञा मतः। इष्टः । तैरिष्यमाण इत्यर्थः ।। बुद्धः । विदितः ॥ पूजितः । अर्चितः॥
(तत्त्वदी०)-जीतामि ते ॥ जिरियेषां ते जीतस्तेषाम् ॥ . (दस्तस्य नो दश्च ) दकारात्परस्य कितस्तस्य नत्वं दकारस्य च॥ भिन्नम् ॥ (सुबोधिनी) दस्तस्य नो दश्च॥दात्परस्य कितस्तस्य नत्वं स्याहस्यापि नत्वं स्यात्॥
(भावे कर्तरि चादितःक्तक्तवत्वोरिड्डा) ॥मेदितः-मिन्नः। प्रस्वेदितः-प्रस्विनः । श्वेदितः-विण्णः॥
(सुबोधिनी)-भावे वर्तरि चादितः क्तक्तवत्वोरिड्वा॥आकारतो धातोर्भावकर्तृस्थितयोः क्तक्तवत्वा रेडा स्यात् ॥ जिमिदास्नेहने । मिद्यते इति मिन्नं तेन । शीस्विदिमिदीति तस्याकित्त्वाद् गुणः। मेदते इति मेदितः सः ॥ निविदा स्नेहनमोचनयोः। प्रस्विद्यते इति प्रस्विन्नं तेन । प्रस्वेदते हति प्रस्वेदितः सः ॥ निविदा स्नेहनमोचनयोः । विण्णं तेन । श्वेदितः सः॥ (तत्त्वदी०)-आदित इति ॥ आत् इद्यस्य स तथा ॥ (अदो जघुः) किति तकारे ॥ जग्धम् ॥ (सुबोधिनी)-अंदो जघुः॥ अदो जघुरादेशः स्याकिति तादौ प्रत्यये ॥ उकार उच्चारणार्थः । तथोर्ध इति तस्य धः। झबे जबा इति कस्य गः । जग्धम् ।
(रः) रेफात्कितस्तस्य नत्वम् ॥ विकीर्णम् । जीर्णम् । __ (सुबोधिनी)-रः ॥र कितस्तस्य नत्वं स्यात् ॥ कृ विक्षेपे । जृ वयोहानौ । ऋत इरितीर । 'य्वो हसे इति दीर्घः । विकीर्णम् । जीर्णम् । ___ (तत्त्वदी० )-रः इति ॥ कृतस्यापत्य कार्तिरित्यत्र । वृद्धरसिद्धत्त्वान्न स्वरात्तो वेत्यतो वेत्यस्यानुवृत्तेर्व्यवस्थया कचिन्न कचिद्वेति बोध्यम् । तेन पूर्त इत्यादौ न । रदस्तस्येति सुवचम् ॥