________________
(२३२)
सिद्धान्तचन्द्रिका। [पूर्वकृदन्तप्रक्रिया ] (ल्वाद्योदितश्च ) ल्वादेरोदितश्च धातोः कितन्तस्य नो भवति॥ लूनः । लूनवान् । ज्या वयोहानौ । जीनः॥
(सुबोधिनी)-ल्वाद्योदितश्च ॥ ल्वादेरेकविंशतेर्धाता गादितश्च कितस्तस्य नत्वं स्यात् ।।यादरन्तर्गणो ल्वादिः । लूज १ । स्तृञ् २ । कृञ् ३ । वृञ् ४। धूञ् ५। श६ । द ७। पृ ८ । भृ९। मृ १० । दृ ११ । जृ १२ । न १३ कृ १४ ॥ ऋ१५ । गृ १६ । ज्या १७॥री १८ । ली १९ । व्ला २० ।ठी २१ इति ल्वादिः॥ लूञ् छेदने । लूयते स्म इति लूनः । लुनाति स्मेति लूनवान् ॥ ज्या वयोहानौ । ग्रहामिति संप्रसारणे जीनः ॥
(तत्त्वदी० )- ल्वाद्योदितश्च इति ॥ लू आदिर्यस्य स ल्वादि. । ओदिद्यस्य स ओदित्। वादिश्च ओदिच्चल्वाद्योदित् तस्मात् ।। लून इति।लूयते स्म इति॥लूनवानितिलुनाति स्मेति।
(प्यायः पी ति किति ) पीनः। भुजो कौटिल्ये । भुग्नः । हीनः। स्वादय ओदितः। दूङ् प्राणिप्रसवे । सूनः सून न् । प्रङ् परितापे। दूनः। मीनः । डीडू । उड्डीनः। दीनः । लीनः। वीणः । रीणः । धीनः॥
(सुबोधिनी)-प्यायः पी ति किति ॥ प्यायः पी आदेशः स्यात् तादौ किति ॥ ओप्यायी वृद्धौ । पीनः ॥ भुजो कौटिल्ये । नत्वस्यासिद्धत्वेन झस्परत्वात् चोः कुरिति गः । भुनः ॥ ओहाक् त्यागे। अपिदा तीत्वम् । हीनः ॥ पूड प्राणिप्रसवे । स्वादय ओदित इत्योदित्वान्नत्वम् । सूनः । सूनवान्। दिवादेरन्तर्गणोऽयं स्वादिः । षूङ १ । दङ् २। दी: ३ । डीङ ४ । धीङ् ५ । मीङ्६। री ७। लीङ्८ । वीङ् ९। स्वादयो नव ॥ दू परितापे । दूनः। दनवान् । डीङ् विहायसा गतौ । ओदिन्मध्ये डीङः पाठसामर्थ्यादिण्न । उड्डीनः। दङ् क्षये। दीनः । लीड श्लेषणे । लीनः। री स्रवणे। रीणः । धीङ् आधार । धीनः ।
(तत्त्वदी०) उड्डीन इति ॥ ओदिन्मध्ये डीङः पाठसामर्थ्यानेट् । एवमन्यत्रापि कर्नाद्यर्थभेदेन वाक्यमेदः ॥
(दुग्वोर्दीर्घश्च ) दूनः। गूनः॥ (सुबोधिनी)-दुग्वोर्दीर्घश्च ॥ दुगुभ्यां परस्य कित तस्य नत्वमनयोर्दीर्घश्च स्यात् ॥ गु पुरीपोत्सर्गे । दु गतौ ॥ टुदु उपतापे अयं तु न गृह्यते सानुबन्धकत्वात् । 'मृदुतया दुतया' इति माधः॥ दूनः। गूनः ॥
(तत्त्वदी०)-दुग्वोरिति ॥ दु गतावित्येव गृह्यते न तु टुदु उपताप इत्यपि सानुबन्धकत्वात् । मृदुतया दुतयेति माघोऽपि ॥