________________
[ पूर्वकृदन्तप्रक्रिया ] टीकाद्वयोपेता ।
(२३३) (क्षियो दीर्घः कतारे तक्तवत्वोनत्वं च )क्षीणः । क्षीणवान् । कर्तरि किम् । क्षितम् ॥
( सुबोधिनी)-क्षियो दीर्घः कर्तरि क्तक्तवत्वोर्नत्वं च ॥ क्षियः परयोः कर्तरि स्थितयोः क्तक्तवत्वोस्तस्य नत्वं क्षियो दीर्घश्च स्यात्॥ क्षि क्षये । क्षि निवासगत्योः। क्षयति स्मति क्षीणः । क्षीणवान् ॥कर्तरि किम् । क्षीयते स्मोति क्षितं कामेन ।
(यलसंयोगादेरादन्तात्कितस्तस्य नत्वम् ) द्राणः । ग्लानः । म्लानः॥ - (सुबोधिनी)- यलसंयोगादेरादन्तात्कितस्तस्य नत्वम्॥यलप्रत्याहारसंयोगादेराकारान्ताद्धातोः परस्य कितस्तस्य नत्वं स्यात् ॥ द्रा कुत्सायाम् । द्राणः॥ ग्लै म्लै हर्षक्षये । ग्लानः । म्लानः॥
(नुदविदोन्दवाना ब्रीनिर्वाभ्यो वा) त्राणः-त्रातः । घ्राणःघ्रातः । ह्रीणः-हीतः । नुत्तः-तुन्नः। विद विचारणे । वित्तः-विनः। उन्दी क्लेदने । उत्त:-उन्नः । 'निर्वाणो मुनिवढ्यादौ निर्वातस्तु गतेऽनिले ॥' " (सुबोधिनी)-नुदाविदोन्दत्राघ्राहीनिर्वाभ्यो वा॥एभ्यः कितस्तस्य नत्वं वा स्यात् ॥ आद्यानां त्रयाणां दस्तस्येति नित्यं नत्वे प्राप्ते त्रा घ्रा अनयोयलसंयोगादेरिति नत्वे प्राप्त ही वा पनयोरप्राप्ते सात विभाषेयम्। नुद प्रेरणे। नुत्तः नुन्नः। विद विचारणे । रौधादिक एव गृह्यते उन्दिना परेण साहचर्यात् । वित्तः-विन्नः। तथा च भाष्यम्-"वेत्तेस्तु विदितो निष्ठा विद्यतेर्विन्न इष्यते । विन्तेर्वित्तश्च विन्नश्च भोगे वित्तश्च विन्दतेः॥” इनि ॥ उन्दी क्लेदने । आदीदित इतीण्न । नो लोप इति नलोपः। उन्नः-उत्तः॥ त्रैड पालने । त्राणः-त्रातः ॥त्रा गन्धोपादाने । घ्राण:घातः ॥ ही लज्जायाम् । ह्रीणः-हीतः ॥ वा गतिगन्धनयोः । अवाते कर्तरि सति नत्वं स्यात् । निर्वाणोऽग्निर्मुनिर्वा । मुक्तिं गत इत्यर्थः । वाते कर्तरि तु निर्वातो वातः। नितरां वातो गत इत्यर्थः । गत्यर्थादिति कर्तरि क्तः॥. .(दो दत्ति)दा इत्यस्य दथ् किति तकारे न तु पितः॥दत्तादत्तवान्।।
(सुबोधिनी)-दो दति ॥ ददातेर्दथादेशः स्यात्किति तकारे दाप लवने अस्य तुं न व्याख्यानात् प्रयोगाभापाच्च । थान्तोऽयमादेशः । किं च यदि तान्त आदेशस्तदा विदत्तमित्यादौ आद्यन्तवदेकस्मिन्निति न्यायेन नाम्यन्तोपसर्गस्येति दीर्घः स्यात् । याद दान्तस्तदा दस्तस्येति नत्वं स्यात् । यदि धान्तस्तदा तथोर्ध इति तस्य धः स्पात् । थान्ते तु 'खसे चपा' इति थस्य तः । दत्तः। दत्तवान् । पितस्तु दातः॥