________________
( २३४ )
सिद्धान्तचन्द्रिका |
[ पूर्वकृदन्तप्रक्रिया ]
(स्वरात्तो वा) स्वरान्तादुपसगार्दुत्तरस्य दा इत्यस्य तो वा किति तकारे न तु पितः ॥ प्रत्तः प्रदत्तः । अवन्तः - अवदन्तः ॥ (सुबोधिनी ) - स्वरात्तो वा ॥ पक्षे दथादेशः ॥
(तत्त्वदी० )-स्वरपदं स्वरान्तोपसर्गोपलक्षणकमित्याह - स्वरान्तादुपसर्गादिति ॥ तेन देवदत्त इत्यादौ न ॥
( नाम्यन्तोपसर्गस्य दीर्घो दादेशे तकारे) खण्ड अदायि मूत्तम् । नीतम् ॥
( सुबोधिनी ) - नाम्यन्तोपसर्गस्य दीर्घो दादेशे तकारे ॥ नाम्यन्तस्योपसर्गस्य दीर्घः स्याद्दास्थाने आदेशो यस्तकारस्तस्मिन् परे || ( धाञ हिः किति ते) निहितः ॥
( सुबोधिनी) - धाञ हिः किति ते ॥ दधातेर्हिरादेश स्यात् किति तकारे ॥ ( ध्याख्यापृमूर्छिमदिभ्यो न नत्वम् ) ध्यानः । ख्यातः । पूर्तः॥ मूर्तः । मत्तः ॥ यज इष्टम् । उप्तम् । ऊढः । व्येञ् वीतः । हृञ् हूतः । उदितः । उक्तः ॥
( सुबोधिनी ) - ध्याख्यापृमूर्छिमदिभ्यो न नत्वम् ॥ आद्ययोर्यलसंयोगादे रिति नत्वे प्राप्ते पृ इत्यस्य तु ल्वादिषु पाठात् ल्वाद्योदित इति नत्वे प्राप्ते मूर्च्छतस्तु छस्य लोपे कृते र इति नत्वे प्राप्ते माद्यतेस्तु दस्तस्येति नत्वे प्राप्ते निषेधः । ध्यै चिन्तायाम् । ध्यातः ॥ ख्या प्रकथने । ख्यातः ॥ पृ पालना हौ । पोरुरित्युर । 'खोहिसे' इति दर्घिः । कित इतीन्न । पूर्तः ॥ मुर्च्छा मोहसमुच्छ्राययोः । रेफाच्छ्रोरिति छलोपः । आदीदित इतीण्न । मूर्तः ॥ मदी हर्षे । आदीदित इतीन्न । मत्तः ॥ यज देवपूजादौ । छशषोत षत्वम् । ष्टुत्वम् यजादित्वात् यजामिति संप्रसारणम् । इष्टम् ॥ डुव बीजसंताने । उप्तम् ॥ वह प्रापणे । होढ इति हस्य हः । तथार्ध इति तस्य धः । ष्टुत्वम् । ढि ढ इति ढलोपपूर्व दीर्घौ । ऊढः । व्यं संवरणे । वीतः ॥ स्पर्द्धायाम् । हृतः ॥ वद व्यक्तायां वाचि । कृत इतीट् | उदितः ॥ वच परिभाषणे । उक्तः ॥
1
( वसतिक्षुधोरिट् क्त्वा क्तक्तवतूनाम् ) उषिनः । क्षुधितः॥सुप्तः॥ (सुबोधिनी ) - वसतिक्षुधोरिट् क्त्वाक्तक्तवतूनाम् ॥ वस निवासे । यजामिति संप्रसारणम् । घसादेरिति षः । उषितः ॥ क्षुध बुभुक्षायाम् । क्षुधितः ॥ ञिष्व शये । यजामिति संप्रसारणम् । सुप्तः ॥
( क्वचिद्वेटः क्तक्तवत्वोर्नेट् ) ब्रश्चू । वृक्णः ॥
1