SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ पूर्वकृदन्तप्रक्रिया ] टीकाद्वयोपेता । ( २३५ ) (सुबोधिनी) - कचिद्वेट क्तक्तवत्वोनेंट् ॥ यस्य धातोः कुत्रचित्स्थले विकल्पे--: नडिहितस्तस्माद्धातोः परयोः क्तक्तवत्वोरिण्न स्यात् ॥ ओव्रश्चू छेदने । ऊदितो वे वेट्त्वादिण्न । ग्रहामिति संप्रसारणम् । ल्वाद्योदित इति नत्वम् । नत्वस्यासिद्धत्वात् झसे परतः छशषेति षत्वे प्राप्ते " तक्तवत्वोरादेशः षत्वस्वरप्रत्ययेड्डिधिषु सिद्धो बाच्यः" इति । चोः कुरिति कुत्वम् । स्कोरिति सलोपः । वृक्णः । वृक्णवान् ॥ ( अञ्चेः पूजायामिट्) अश्चितः । जातः ॥ ( सुबोधिनी ) - अश्वः पूजायामि ॥ पूजार्थादञ्चतेः परयोः क्तक्तवत्वोरिट स्यात् ॥ उदितः क्त्वो वेडिति अञ्चेः क्त्वायां वेट्कत्वात् क्वचिद्वेद्र इति निषेधे प्राप्ते सति विधिः । पूजार्थाश्वतेर्ने ति नलोपो न । अञ्चितः। गतौ तु नो लोप इति नलोपः ॥ चोः कुरिति कः । अक्तः । जनी प्रादुर्भावें ॥ जनसनेत्यात्वम् । जातः ॥ ( पचो वः ) तक्तत्वोस्तस्य । पक्कः । पक्कवान् ॥ (सुबोधिनी ) - पचो : ॥ पचतेः परस्य क्तक्तवत्वोस्तस्य वः स्यात् । डुपचष पाके । वस्यासिद्धत्वाच्चोः कुरिति कः । पक्कः ॥ ( क्षायो मः ) क्षामः । क्षामवान् ॥ (सुबोधिनी) - क्षायो मः ॥ क्षायतेः परस्य क्तक्तवत्वोस्तस्य मः स्यात् ॥ क्षे क्षये | संध्यक्षराणामित्यात्वम् । क्षामः ॥ ( तत्त्वदी ० ) - क्षामः ते ॥ क्षै क्षये इत्यस्यात्वे ॥ ( प्रस्त्यः संप्रसारणं किति तस्य मो वा ) प्रस्तीमः- प्रस्तीतः ॥ (सुबोधिनी ) - प्रस्त्यः संप्रसारणं किति तस्य मो वा ॥ प्रपूर्वस्य स्त्यायतेः संप्रसारणं स्यात् किति त्तक्तवत्वोस्तस्य मश्च वा ॥ स्त्यै शब्दसंघातयोः । प्रस्तीमः - प्रस्तीतः ॥ ( तत्त्वदी ० ) - प्रस्त्य इति ॥ प्रस्त्यः संप्रसारणं नित्यं तस्य तु मो वेत्यर्थः ॥ प्रस्तीमः -- प्रस्तीतः । आदौ संप्रसारणे कृते यलसंयोगादित्वाभावान्न नत्वम् ॥ (शुषेः कः ) शुकः । शुष्कवान् ॥ (सुबोधिनी ) - शुषेः कः ॥ शुषेः परस्य क्तक्तवत्वोस्तस्य कः स्यात् ॥ शुष शोषणे । शुष्कः ॥ (स्फायः स्फीति किति) स्फीतः । धेट् धीतम् । गीतम् । पीतम्। दो दितम् । सो सितम् । मितम् ॥ ( सुबोधिनी ) - स्फायः स्फी ति किति ॥ स्फायतेः स्फीरादेशः स्यात् तादौ किति ॥ स्फायी वृद्धौ । स्फीतः ॥ धेटू पाने । गै शब्दे । पा पाने । एषां त्रयाणा
SR No.002415
Book TitleSiddhant Chandrika Uttararddham
Original Sutra AuthorN/A
AuthorKshemraj Shrikrishnadas Shreshthi
PublisherKshemraj Shrikrishnadas Shreshthi
Publication Year1850
Total Pages372
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy