________________
( ४२ )
सिद्धान्तचन्द्रिका |
[ आख्याते वादयः ]
( तत्वदी ० ) - स धातुरिति ॥ तच्छब्दस्य तदादित्वेन तेषां च प्रधानपरामर्शित्वेन यङादिगृहीतः केवलयङादेश्च संज्ञाप्रयोजनाभावात्तदन्तलाभः । अनन्तरोक्तस्य भेरपि ग्रहणं सग्रहणेन निर्वार्यते । अन्यथानुवृत्यैव तद्ग्रहणे सिद्धे सग्रहणं व्यर्थं स्यात् । आदेशादि विधायकप्रकरणेन विच्छेदाद्व्यवहिततिबादरेपि न ग्रहणमतः परिशेषाद्यङादिरेव गृह्येत इत्याशयेनाह यङादिप्रत्ययान्तइति । यतः ॥ यस्यातश्चानपि लोपः ॥ गोपाय्यात् - गुप्यात् । गोपायिता-गोपिता--गोप्ता । अगोपायीत्-अगौप्सीत् ॥
(सुबोधिनी ) - यतः ॥ य् च अच्चानयोः समाहारो यत् तस्य ॥ धातोर्विशेषणत्वात्तदन्तविधिः । यान्तस्य अदन्तस्य च लोपः अनपि । अदन्तस्य किम् । अय पय गतौ । आभ्यां क्विपि यवयोर्वसे हकारे चेति यलोपे कृते य इत्यलोपो माभूत् । अतपत् । ऊदिवाट् । गोपिता । गोप्ता । इडभावपक्षे अनिटो नामिक्त इति वृद्धिः । अगौप्सीत् ॥
( तत्त्वदी० ) - यत इति ॥ य् च अच्च अनयोः समाहारः यत् तस्य ॥
झसात् ॥ अगतात् ॥ एवं धूप सन्तापे । तप सन्तापे । तेपिथततप्थ । अताप्सीत् ॥ जप जल्प व्यक्तायां वाचि । जेपिथ | जपिता । अजापीत् ॥ क्रमु पादविक्षेपे ॥ को-वोल
(सुबोधिनी) - क्रमु -- पादविक्षेपे । पादविक्षेपः पादविहरणम् ॥ (आशभ्लाशमुकमुकमुत्रसित्रुटियां
योगा कर्त्रर्थेषु चतुर्षु) (सुबोधिनी) - भ्राशभ्लाशभ्रमुक्रमुक्कमुत्रसित्रुटिषां यो वा कर्त्रर्थेषु चतुर्षु ॥ प्राप्ताप्राप्तविभाषेयम् । अनवस्थानार्थो 'भ्रमिः क्लमिः त्रसिश्च दिवादयस्तेभ्यो नित्ये प्राप्ते इतरेषामप्राप्तेश्वारम्भः । भ्राट भ्लाट दीप्तों । फणादावेतौ । भ्रमुचलने । भ्वादिलादिश्च । भ्रमु अनवस्थाने दिवादिः पुषादिः शमादिः । तत्र भ्वादेः भ्रमति - भ्रम्यति । शमादेस्तु शमादीनामिति दीर्घे भ्राम्यति । इति त्रैरूप्यम् । मुग्लानौ । त्रसी उद्वेगे । त्रुट छेदने । लष कान्तौ ॥
(क्रमः पे दीर्घाऽविषये ) क्राम्यतिक्रामति । अक्रमीत्
It
यम उमरमे ॥ अटक
(सुबोधिनी ) - क्रमः पे दीर्घाऽविषये ॥ क्रमो दोर्घः स्यात् पे चतुर्षु ॥ प किम् उपक्रमते । प्रोपाभ्यामित्यात् । स्नुक्रमेरिति नेट् । स्नुकमोरुदात्तत्वादिटि सिद्धनियमार्थोऽयम् । आभ्यां परस्य परस्मैपदस्यैवेट् स्यान्नातः । स्नु प्रस्रवणे । उपस्त्रो ब्यते जलेन । उपक्रंस्यते । यमु उपरमे । उपरमो निवृत्तिः ॥
गमां छः ॥ गमयमइषूणां छः स्यादब्विषये ॥ यच्छति । येमिथ-ययंथ ॥