________________
[ आख्याते भ्वादयः ]
टीकाइयोपेता ।
( ४१ )
(तत्त्वदी० ) - नामधातुविति ॥ एतच्च विदो नवानामिति सूत्रस्यैवौनुवृत्तेर्व्यवस्थया बोध्यम् । पण्डमाचष्टे षण्डयतीत्यादौ ॥
(ष्ठवेः पूर्वस्य स्य ठौ वा ) तिष्ठेव - टिष्ठेव । य्वोर्विहसे । ष्ठींव्यात् । अष्ठेवीत् ॥ कटे वर्षावरणयोः ॥ वर्ण
(हयन्तक्षणश्वस् जागृव्येदितां सेटि सौ न वृद्धिः ) अकटीत् ॥ हय गर्तौ । अहयीत् ॥ जु म्हसि ॥
(सुबोधिनी ) यन्तक्षणश्वस्जागृश्व्येदितां सेटि सौ न वृद्धिः ॥ ह च म् च यच यः ते अन्ते येषां ते हयन्ताः एत् इत् यस्य स एदित् । यन्तस्यं क्षणादेरेदितश्च वृद्धिर्न सेटि सौ | ग्रह उपादाने । अग्रहीत् ॥ टुवमु उरिणे । अवमीत् ॥ हय गतौ । अहयीत् ॥ क्षणु हिंसायाम् | अक्षणीत् ॥ श्वस् प्राणने । अश्वसीत् ॥ जागृ निद्राक्षये । अजागरीत् ॥ टुओश्विर् गतिवृद्धयोः । अश्वयीत् ॥ सेटि सौ किम् । दह भस्मीकरणे । अधाक्षीत् । जु रंहसि । रंहो वेगः ॥
(तत्त्वदी०) यन्तेति ॥ ह् अ म् च य् च ह्नयः ते अन्ते येषां ते हयन्ताः हकारमकारय-कारान्ता इत्यर्थः । क्षण हिंसादौ । वस प्राणने । जागृ निद्राक्षये । टुओश्वि इर् गतिवृद्धयोः । एत् इद्येषां ते तथा तेषामित्यर्थः ॥
जुजुवतुः । जुजुविथ - जुजोथ । अजाबीत् ॥ गुपू रक्षणे ॥
( सुबोधिनी ) गुपू रक्षणे । रक्षणं पालनम् ॥
आयः ॥ गुपूधूपविछिपणिपनिभ्यः स्वार्थे आयः प्रत्ययः । अनपितु वा ॥
( सुबोधिनी ) - आयः ॥ रब्भ्यः इत्यनुवृत्तं पणिपत्योरनुदात्ते च आयाभावे चरितार्थमात्मनेपदुमित्यायान्तान्नाद्भवति ॥ गुपू रक्षणे । धूप सन्तापे । विच्छ गतौ । पण व्यवहारे स्तुतौ च । पन न ॥
( तत्त्वदी० ) - आय इति । इह गुब्भ्य इत्यनुवर्तत इत्याह--3
इति अपरस्यानिर्दिष्टत्वात् स्वार्थे एव लभ्यते ॥
- गुपूधूपेत्यादि ॥ स्वार्थे
स धातुः ॥ यङादिप्रत्ययान्तः शब्दों धातुसज्ञको भवति ॥ गोपायति - गोपायांचकार । जुगोप ॥
(सुबोधिनी ) - स धातुः । तच्छशब्देन यङादिः परामृश्यते । यङादिना च . प्रत्ययग्रहणपरिभाषया तदन्तं गृह्यते । तेषां केवलानां संज्ञाप्रयोजनाभावाद्वा । "य सकाम्या इयङ् चेति यगायञिञिङस्तथा । आचारे क्विवथो यश्च ज्ञेया दश यङनदयः ॥ १ ॥ प्रत्ययविशिष्टस्य धातुत्वात् तिवादिः ॥