________________
[ आख्याते भ्वादयः ] टीकाद्वयोपेता।
(सुबोधिनी)-गमा छ। गम्ल गतौ । यम उपरमे । इषु इच्छायाम् । एते गमादयः । बहुवचनमाद्यर्थम ॥ (तत्त्वदी०)-गमामिति ॥ बहुवचननिर्देशस्य फलमाह-गमादय इत्यादि ।
(यमिरमिनमातां सक्सेरिट पे) अयसीत्, अयंसिष्टाम् ॥ णम . प्रवत्वे शब्दे च।नेमिथ-ननन्थ। अनसीत् ॥ईj ईर्ण्य ईर्ष्यायाम ।
ईय॑ति । ऐयात् । ऐ-त् ॥ गम्ल गतौ । गच्छति ॥ (सुबोधिनी)-यमिरमिनमातांसक्सरिट पे॥ एषां सक् स्यात् एभ्यःसेरिद प परे ॥ अयसीत्, अयंसिष्टाम । व्यरंसीत्, व्यरंसिष्टाम् । अनंसीत्, अनंसिष्टाम् । फे किम् । उदायत । अरंसाताम् ।
गमां स्वरे ॥ गम्हन जन्खन्धसामुपधाया लोपः स्यात्स्वरे क्ङिति न तु ङ॥ जग्मतुः। जगमिथ-जगन्थ ॥ (सुबोधिनी)-गमां स्वर ॥गम्ल गतौ । हन् हिंसागत्योः । खनु अवदारणे । घस्ल अदने । एषामुपधाया लापः स्यात् स्वरादौ विकात प्रत्यये न तु ङ । नो वेत्यतो व्यवस्थितार्थकस्यैवानुवर्त्तनात् जग्मतुः । जघ्नतुः । चख्नतुः । जक्षतुः ।। 3 किम अगमत् ॥ .
(तत्त्वदी० )गमा स्वर इति॥बहुवचनस्य बहूपलक्षत्वमभिप्रेत्य गणयति गमनहनेत्यादि । नो वेत्यतो वानुवृत्तव्यवस्थया कचियभिप्रत्याह न तु-डे इति॥तेन अगमदित्यत्र लोपो न ॥
हन्नृतः स्यपः॥ हन्तक्रंदन्ताच परस्य स्यप इडू भवति । गमेस्तु पे गमिष्यति ॥ (सुबोधिनी)-हन्नृतः स्यपः॥ अनुदात्तत्वादिनिषेधे प्राप्ते विधिः । हन् च ऋच्चानयोः समाहारो हन्नृतः। तन्मात् हन्नृतः। गमः परस्मैपदस्यैवेट नातः। तेन संगस्यते इत्यादौ न ॥
(तत्त्वदी०) हन्नृतः॥हन् च ऋच हन्नृत् तस्मात् । ऊदितो वेत्यतो वेत्यनुवृत्तेर्व्यवस्थया गमः परस्मैपदमेवेत्याह--गमेस्त्विा ॥ तेन संगस्यते इत्यादौ न ॥ हन्तेः ऋदन्ताचोभयपदेऽपि । आहनिष्यते करिष्यते ॥ लित्पुषादेऊः॥लिता धातोः पुषादेश्च ङः प्रत्ययः स्यात् ।।
सेरपवादः॥ अगमत् ॥ ध्रुचु म्लुचु गतौ । म्रोचति ॥ (सुबोधिनी) लित्पुषादेर्डः ॥ल इत् यस्य सलित् । पुष आदिर्यस्य सपुषादिः। लिच्च पुषादिश्चानयोः समाहारो लित्पुषादिः तस्मात् । सौत्रत्वात्पुंस्त्वम् । संज्ञापूर्वक