________________
(४४)
सिद्धान्तचन्द्रिका । [ आख्याते भ्वादयः ] विधेनित्यत्वान्न नुम् । जेरङ् द्विश्चेत्यतोऽङित्यनुवृत्त्यैव सिद्धे ङइति योगविभागेन तु द्युतादिभ्योऽस्यतिवक्तीति च लब्धम्। पुषादिश्च दिवाद्यन्तर्गणे ग्राह्यःलित्साहचर्यात । लितो हि प्रायेणानिट:ऽतत्साहचर्यात्पुषोऽप्यनिड़ ग्राह्यः स दिवादिः न भ्वादिः सेट्त्वात् न चुरादिर्जिना व्यवधानाच्च ॥ ___(तत्त्वदी०)--लित्पुषादेरिति ॥ ल इत् यस्य स लित् । पुष आदिर्यस्य स पुपादिः लिच्च पुषादिश्चानयोः समाहारः लित्पुषादिस्तस्य । नुमोऽनित्यत्वात्क्लीः त्वस्यैव वा पुंस्त्वम् ।। ननु रतिश्चेत्यनन्तरोक्तसूत्रादङनुवृत्तः किं ङग्रहणेनेति चेत्सत्यम् । ङहणं योगविभागेनान्यतोऽपि विधानार्थम् । तेन द्युतादिभ्योऽपि अस्यतिवक्तिख्यातिभ्यश्च भवति । अथैकयोगनिर्दिष्टन्यायेनालि द्वित्वं भवेदिति वाच्यम् । ओरिति ग्रहणात् । ञ्यन्तादेवाङि द्वित्वविधा नात् न त्वन्यस्मात् । अङि लघोह्रस्व उपधाया इति हस्वस्तु लित्पुषादेर्दीर्घोपधत्वाभावादेव न द्वित मावेन पूर्वपदत्वाप्रसङ्गाच॥
(मुचादेर्वा ङः) अघुचत्-अम्रोचीत् । अम्छुचत्-अम्लोचीत् ।। ग्रुचु ग्लुचु चौर्ये । अग्रुचत्-अग्रोचीत् । अग्लु पत्-अग्लोचीत् ॥ ग्लुञ्चु गतौ । अग्लुचत् अग्लुञ्चीत् ॥ त्रिफला विशरणे ॥
(सुबोधिनी )म्रचादेर्वा ङः ॥ मुचु म्लुचु ग्रुचु ग्लुचु छुञ्चु इति सुचादयः॥ त्रिफला विशरण । विशरणमवयवानां विभागः॥
(तृफलभजत्रपां किति णादौ सेटि थपि चत्वपूर्वलोपौं) फेलतुः। फेलिथ ॥ (सुबोधिनी)-तृफलभजत्रपां किति णादो सेटि पि चैत्वपूर्वलोपौ। तरतरकारस्य गुणशब्देन भावितत्वात् फलभजोस्तु वैरूप्यसंपदकादेशत्वात् त्रपतेश्च एकहसमध्यस्थवाभावादप्राप्ते विधिः । तेरतुः । तेरुः । फेलतः फेलुः । भेजतुः । भेजुः । ।पे। पाते ॥ २२ लान्तस्य लूसमीपाकारस्य सौ नित्यं वृद्धिः ॥ अफालीत् ॥ फल निष्पत्तौ । फेलतुः। अफालीत् ॥ चर गतिभक्षणयोः । अचारीत् ॥ जि जये॥ __ (सुबोधिनी)-ट्रान्तस्य लूसमीपाकारस्य सौ नित्यं वृद्धिः ॥ अतोहसादेरिति विकल्पस्यापवादः ॥ लान्तस्य किम् । अलपीत् परणीत् । अत्र लूसमीपत्वेपि लान्तत्वाभावान्न नित्यं वृद्धिः ॥ लूसीपाकारस्थ किन् । श्वल्ल आशुगमने । अश्वल्लीत् । अत्र अस्य लूसमीपत्वेऽपि अन्त्यलूसमीपत्वाभाव न्न वृद्धिः । जि जये। जय उत्कर्षप्राप्तिः। अकर्मकोऽयम् ॥
(तत्त्वदी०)-लान्तस्येति॥लान्तस्य किम् । अलपीन् । अरणीत् । अत्र लूसमीपत्वेऽपि लान्तत्वाभावान्न ॥ लूसमीपाकारस्य किम् । श्वल्ल आशुगभने इत्यस्य अश्वल्लीत् । अत्र