________________
[ आख्याते भ्वादयः ]
टीकाद्वयोपेता |
( ४५ )
लूसमीपत्वेऽपि अन्त्यलूसमीपत्वाभावान्न । अतो हसादेरिति प्राप्त विकल्पस्यापवादः । जि जये इति ॥ जय उत्कर्षप्राप्तिः ॥
(सपरोक्षयोर्जेर्गिः ) जिगाय, जितुः, जिग्युः । जिगयिथजिगेथ | जीयात् । अजैषीत् ॥ कृष विलेखने । कर्षति । चकर्ष । चकर्षिथ ॥ ( सुबोधिनी) - सपरोक्षयोर्जेर्गि: ॥ जोगः स्यात् सप्रत्यये णवादौ च । द्वित्वनिमित्तयोरिति व्याख्येथम् । तेन यङ्लुगन्ताज्जेर्ग्यादेशो न जेजयांचकारेत्यत्र ॥ कृष विलेखने । विलेखनमाकर्षणम् ॥
( तत्त्वदी०) सपरोक्षयोरिति ॥ परोक्षशब्देन तदर्थकणबादिग्रहः । द्वित्वनिमित्तयोरिति : व्याख्येयम् । यथाश्रुतव्याख्याने तु यङ्लुगन्ताज्जेर्यादेशः स्यात् ॥
रोझसे दृशाम् ॥ दृशस्सृजकृषमृषतृपदृपसृपां झसेऽरों रो भवत्यारो रश्च ॥
( सुबोधिनी) रारों झसे दृशाम् ॥ अश्व आश्च तयोः समाहारः अं सहितो र अर् तस्य अरः । अरः स्थाने आरः स्थानै च रो भवति । तेन द्रक्ष्यति अद्राक्षीदित्युभयत्रापि गुणवृद्धिस्थाने र आदेशः सिध्यतेि । बहुवचनं त्वाद्यर्थम् दृशिर प्रेक्षणे । सृज विसर्गे । कृष विलेखने । मृश आमर्शने । स्पृश स्पर्शने । तृप प्रीणने । दृप हर्षमोहनयोः । सृपूल गतौ ॥
(कृषादीनां वा )
-
॥
(सुबोधिनी ) - कृषादीनां वा ॥ कृषादीनां षण्णां तु वारः स्थाने रः ॥ पढोः कः से ॥ धातोः षढयोः कत्वं स्यात्से परे ॥
क्रक्ष्यति-कर्क्ष्यति । अकाक्षीत्-अकाक्षत् ॥
( सुबोधिनी ) - षढोः कः से धातोरित्यनुवृत्तम् ॥ से किम् । ऋष्टा ॥ षढोः किम् । त्रस्यति ॥ धातोः किम् । लिटसु ॥
(तत्त्वदी०) षढोः क सः इति ॥ धातोरिति ॥ अत्र धातुग्रहणद्वयानुवर्तनं विधेयम् : तेन धातोरेव धातोर्नतु नामत्वविशिष्टस्यापि । अतो लिह्य इत्यत्र नातिप्रसङ्गः । न चात्र क्यस्य बाधकत्वं तदपवादकत्वादस्य । न च त्र नामत्वेन धातुस्वमिति भ्रमितव्यम् । तेन तदनपायात् ।
(कृषमृपस्पृशमृशतृपहपां वा सिः) हशषान्तात्सक । हान्ताच्छान्तात्षान्तान्नाम्युपधादनिटः सकृप्रत्ययः स्यादिबादिपरो न तु दृशः ॥ सेरपवादः । अकृक्षत् ॥ सुप्लृ गतौ । सर्पति । स्रप्तासप्त । असृपत् ॥ क्रुश आह्वाने रोदने च । क्रोशति । क्रोष्टा । अक्रुक्षत् ॥ रुष रिष शिष हिंसायाम् ॥