________________
( ४६ )
सिद्वान्तचन्द्रिका |
[ आख्याते भादयः ]
(सुबोधिनी ) - कृषमृषस्पृशंमृशतृपदृपां वा सिः ॥ एभ्यो वा सिः स्यात् । पक्षे हशषान्तात्सक ॥ तृपदृभ्यां षादित्वात्तु ङः हशषान्तात्स । अनिटोsनामिवत इत्यनुवृत्तम् ॥ हशषान्तात्किम् । अतिप्त । नाम्युपधात्किम् । गाढ | अनिटः किम् । औहिष्ट ॥ दृशेस्तु अद्राक्षीत् । हश्व शश्च षश्च हशषाः ते अन्ते यस्य स तस्मात् । अत्रान्तग्रहणं चिन्त्यम् । हशषादिति पाठ्यम् । तेन च धातोर्विशेषणादन्तलाभः ॥
( तत्वदी० ) - शषान्तात्सगिति । हश्व शश्च षश्च अन्ते यस्य स तस्मात् । अत्र चानिटोऽना मित्रत इति पूर्वसूत्रान्नामिवत इत्यनुवर्त्य तस्य च विशेषार्थता विवक्षणान्नाम्युपधात्वलाभः । इत्यभिप्रेत्याह- नाम्युपधादिति । तेन स्तृहेरस्ताक्षीदित्येव रूप मेति बोध्यम् । हशषादित्येव युक्तं धातोर्विशेषणत्वेनान्तलाभात् ॥
(इषुसहलुभरिषरुषामनपि तस्यैडा ) रेषिता-रेष्टा । रोष्टारोषिता । अशिक्षत् ॥ उष गतौ, ओषति । ओषाञ्चकार - उवोष ॥ मिह सेचने ॥
(सुबोधिनी ) - इस हलभरिषरुषामनापि तस्येा ॥ इषु इच्छायाम् । षह मर्षणे । लुभ गायें । रुष रिष हिंसायामेभ्यः परस्य तकारस्य इड्डा भवति अनपि पर ॥ विदरिद्रेत्याम् । उपधाया लघोरिति गुणः । ओपांचकार । असवर्णे स्वरे इत्युव । उवोष ॥ मिह सेचने । सेचनमाद्रीकरणम् ॥
2
ढढो लोपो दीर्घश्च ॥ ढे परे ढस्य लोपः पूर्वस्य चानृतो दीर्घः । मेढा । षढोः कः से । अमिक्षत् ॥ दह भस्मीक रणे । देहिथ - ददग्ध । धक्ष्यति । अधाक्षीत् । झसात् अदाग्धाम् ॥ हवि व्याप्तौ । इन्वति इन्वांचकार । ऐन्वीत् ॥ हिवि दिवि धिवि जित्रि प्रीणने । हिन्वति ॥ सुबोधिनी) - ढि ढो लोपो दीर्घश्च ॥ अनृतः किम जर्गृठात् ॥ हो ट इति ढत्वम् । तथोध इति तस्य धः । ष्टुभिः ष्टुः इति टः । ढलप मेढा । हशषान्तात् इति सक् । अमिक्षत् ॥ हिवि दिवि धिवि जिवि प्रीणने । प्रीणनं तर्पणम् । इदितो नुमिति नुम् । हिन्वति ॥
( तत्त्वदी० )-ढि ढो लोप इति ॥ वान्यत्रेत्यतो वानवृत्तेर्व्यवस्थयाऽनृतः पूर्वस्येति बोध्यम् । ढि ढोलोपो दीर्घश्चेति सुवचम् । एवं च रिलोपो दीर्घश् ते न सूत्रणीयम् ॥ प्रीणन इति ॥ प्रीणनं वृत्तिस्तर्पणं च ॥
( धिन्विकृण्व्योर्वस्य लोपो गुणाभाव उप्प्रत्ययश्चाब्विषये ) विकरणस्य तुप्रत्ययस्योप्प्रत्ययस्य च गुणो भवति पिति परे ॥ धिनोति ॥