________________
[ आख्याते भ्वादयः ]
टीकाद्वयोपेता ।
( ४७)
(सुबोधिनी) - धिन्विकृण्ज्योर्वस्य लोपो गुणाभावः उप्प्रत्ययश्चाबूविषये || आभ्यामुप्रत्ययः स्यातू धातोर्वकारस्य लोपो गुणाभावश्च चतुर्षु । अपोऽपवादः ॥ धिवि प्रीणने । कृवि हिंसायाम् । नूप इति गुण धिनोति ॥
ओमोर्वा लोपः ॥ असंयोगपूर्वस्य प्रत्ययोकारस्य लोपो वा वमयोः ॥ धिन्वः-धिनुवः धिन्मः-धिनुमः । मिपि तु गुणो बाधकः । धिनोमि ॥
(सुबोधिनी ) - ओमोर्वा लोपः ॥ उकारः प्रत्ययावयवः प्रत्ययरूपश्च गृह्यते । ओर्वाहेरित्यतो वेत्यनुवृत्तम् । तस्थासंयोगपूर्वस्य प्रत्ययस्येत्यर्थः । प्रत्ययोकारस्य किम् । युवः । युमः ॥ असंयोगपूर्वस्य किम् । शक्नुवः । तणुमः ॥धिनोमीत्यत्र परत्वाद्गुणः ॥ (तत्त्वदी ० ) - ओमोर्वा लोप इति ॥ ओर्वाहेरित्यतो वेत्यनुवर्त्य व्यवस्थया संयोगपूर्वप्रत्ययोकारलाभः । उकारश्च प्रत्य स्तदवयवश्च ॥
ओर्वा हे ॥ असंयोग पूर्वात्प्रत्ययो काराड्रेर्लोपो वा भवति ॥ धिनुधिनुतात् । कृषि हिंसा करणगतिषु । कृणोति । कृण्वन्ति । चकृण्व । अक्षू व्याप्तौ । (अक्षेर्वा तुप्रत्ययोऽविषये ) अक्षणोति । अक्ष्णुवन्ति । अक्षति । आनक्षिथ-आनष्ठ । अक्षिता-अष्टा । अक्षिव्यति- अक्ष्यति | आक्षीत । आक्षिष्टाम् । आक्षीत् । आष्टाम् । आक्षुः । तक्ष त्वक्ष तनुकरणे ॥
(सुबोधिनी ) ओर्वा है: । वेति न विकल्पार्थं किंतु प्रत्ययसंबन्धिनोऽसंयोगपूर्वादित्यस्यार्थस्य प्रतिपादनार्थ न । उः प्रत्ययरूपः प्रत्ययावयवश्च गृह्यते ॥ प्रत्यय संबन्धिनः किम् । युहि । रुहि । ॐ संयोगपूर्वात्किम् । शक्नुहि ॥ अक्षू व्याप्तौ । व्याप्तिः Sara | अक्षेर्वानुप्रत्ययो विषये । अक्षेर्नुप्रत्ययो वा स्यात् चतुर्षु । अपोऽपवादः ॥
टिस्कोरिति कलोपः । षढोः कः से इति कः । षत्वम् । अक्ष्यति । लुङि ऊदित्त्वा । आक्षीत् । आक्षिष्टाम् । इडभावपक्षे तु आक्षीत् । झसादिति सिलोपे आष्टाम् । आक्षुः ॥ ( तत्त्वदी ० ) ओर्वाहेरिति । वाशब्दोऽत्र न विकल्पार्थः किंतु व्यवस्थार्थः । तत्फलं तूक्तमेव ॥ (तस्तनूकरणे gaisव्वषये ) तक्ष्णोति तक्षति वा काष्ठम् । ततक्षिथ-ततष्ठ । अतक्षीत् । अतक्षिष्टाम् । अताक्षीत् । अताष्टाम् । तनूकरणे किम् । वाग्भिः संतक्षति । भर्त्सयतीत्यर्थः णिक्ष || चुम्बने । प्रणिक्षात | निक्षति । ग्लै म्लै हर्षक्षये ॥ ( सुबोधिनी ) तक्षेस्तनूकरणे नुर्वाऽविषये ॥ तनूकरणेऽर्थे तक्षेनुप्रत्ययो चतुर्षु । अपोऽपवादः । ग्लै म्लै हर्षक्षये । हर्षक्षयो धातुक्षयः ॥
INS 7000