SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ (४८) सिद्धान्तचन्द्रिका | [ आख्यते भ्वादयः ] संध्यक्षराणामा ॥ अनपि । ( सुबोधिनी ) - संध्यक्षराणाना ॥ सन्ध्यक्षरान्तानां धातूनामा अनपि ॥ धातोः किम् । गोभ्याम् । नौभ्याम् ॥ आतो ण डौ । आदन्ताद्धातोः परो णत्र डौ ॥ जग्लौं । ( सुबोधिनी ) - आतो पत्र डौ । आत इति धातोर्विशेषणात्तदन्ताविधिः । आदन्तादाकाररूपाच्च धातोः परो ण डौ स्यात् अइवाच वारेति औ ॥ ( तत्त्वदी ० ) - आतो णब डाविति ॥ धातोर्विशेषणत्व तदन्तलाभ इत्यभिप्रेत्याह-आदन्तादिति ॥ आदन्तादाकाररूपाच्चेति बोध्यम् । णबित्यत्रानुबन्ध्यग्रहणम् । प्रथमपुरुषबहुवचने • गाते इत्यादावतिप्रसंगवारणाय डित्करणम् । आतो युग्वारणाय णिवं वा स्थानिवच्वात् । तज्ज्ञापक चात्र ग्रहणमेव । नित्यत्वात्प्रथमप्राप्तोऽपि युक् सावकाशन्यायेन वारितः ॥ आतोऽनपि ॥ धातोरातो लोपोऽनपि क्ङिति स्वरे इंडेिच ॥ जग्लतुः । जग्लिथ - जग्लाथ ॥ (सुबोधिनी) - आतोऽनपि ॥ आत इति योगविभागात् सेटि थापे चेति लब्धम् ॥ ( तत्त्वदी० ) - आतोऽनपि ॥ आत इति योगविभागात्लेटि थपि चेत्यस्य लाभः ॥ (संयोगादेरादन्तस्य किति लिङयेकारो वा) ग्लायात् ग्लेयात् । अग्लासीत् ॥ कै गै रे शब्दे । जगौ ॥ (सुबोधिनी) - संयोगादेरादन्तस्य किति लियेकारो वा ॥ संयोगादेरादन्तस्य धातोरेत्वं वा किति लिङि ॥ दादरे ॥ अपिदाधामागैहापिबतिसोस्थामात एकारो भवत्याशीर्यादादौ ये ॥ गेयात । अगासीत् । स्त्यै ष्टयै शब्दसंघातयोः । स्त्यायति । तस्त्यौ | स्त्यायात् - स्त्येयात् । अस्त्यासीत् ॥ दैप शोधने । ददौ । दाया | अदासीत् ॥ धेट् पाने । दधौ । धेयात् । अधासीत् । सिलोपपक्षे । अधात् । अधाताम् ॥ ( सुबोधिनी ) - दादेरे ॥ इह दारूपास्त्रयः । डुदाञ् दाने । दाण दाने । दो अवखण्डने । देङ् रक्षणे गृह्यते लिङि कित्त्वासम्भवात् ॥ धारूपौ द्वौ । डुधाञ् धारणपोषणयोः । धेट्पाने । दाश्व दाश्व दाव दाः धाश्च धश्च धौ दाश्च धा च दाधा इति विग्रहः । दापू लवने । दैप शोधने । एतौ पित्त्वात् न ग्राह्यो । मा माने ॥ माङ्'मेङौ नेह गृह्येते लिङि कित्त्वासम्भवात् ॥ शब्दे । गाङ गताविति तु न गृह्यते लिङि कित्त्वासम्भवात् || ओहाकू त्यागे । पा पाने । षोऽन्तकर्मणि । ष्ठा गतिनिवृत्तौ । एषामेवं किति लिङि । देयात् । धेयात् । मेयात् हेयात् । पेयात् । अवसेयात् । स्थेयात् ॥ किति किम् । दासीष्ट ॥
SR No.002415
Book TitleSiddhant Chandrika Uttararddham
Original Sutra AuthorN/A
AuthorKshemraj Shrikrishnadas Shreshthi
PublisherKshemraj Shrikrishnadas Shreshthi
Publication Year1850
Total Pages372
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy