________________
[ आख्याते भ्वादयः ] टीकाद्वयोपेता।
(४९) (तत्त्वदी०)-दादेरित्यत्र दार्ट रित्यतो दादरित्यस्यानुवृत्त्यैव सिद्धेऽत्र दादरितिग्रहणसामर्थ्यादेतल्लाभः॥यादादी पे इति॥ एतः युक्तयुक्तेर्लभ्यते ।ष्टयै स्त्यै इति । अत्र वासुदेवः नामधातुष्वकष्टयैष्ठिवां सत्वं नेत्युक्तवान् तद्भाष्य विरुद्धम् । पृथक्पाठस्तु तिष्टयासति अतिष्ट्यासदित्यत्र षत्वार्थः॥
(उस्यालोपः) अधुः ।।
(सुबोधिनी )-उस्यालोपः ॥ आदन्तस्य धातोरातो लोप उसि परे॥ ४. (धेटो भूतमात्रे दिबादिपरो ङो वा द्वित्वं च) आतोऽनपि ॥
अदधत् ॥ दृशिर प्रेक्षप । ( सुबोधिनी )-धेटो तमात्रे दिबादिपरो ङो वा द्वित्वं च ॥ धेटो ङप्रत्ययो वा स्यात् । द्वित्वं च ङि । सरपवादः ॥ पक्षे यमिरमिनमातामिति सक् । अधासीत् ॥ शाछेति सिलोपे धात् ॥ दृशिर प्रेक्षणे । प्रेक्षणं दशनम् ॥
दृशादेः पश्यादिः।। चतुर्वपि दृशऋमृशदषदपाघ्राध्मानादाण्स्थां पश्यऋच्छधौरतीयसीदपिबजिघ्रधममनयच्छतिष्ठाः । पश्यति । ददर्श, ददृश तुः॥ (सुबोधिनी )-शादेः पश्यादिः॥ दृशिर प्रेक्षणे । ऋ गतौ । सृ गतौ । शद्ल शातने । षद्ल विशरणादौ । पा पाने । पा रक्षणे इति तु न गृह्यते लुग्विकरणत्वात् । घ्रा गन्धोपादाने । ध्मा शब्दाग्निसंयोगयोः । ना अभ्यासे। दाणू दाने । ष्ठा गतिनिवृत्तौ । एपाकादश नां यथासंख्यमेकादश पश्यादय आदेशा भवन्ति अप्प्रत्यये परे ॥
(तत्त्वदी० )-दृशादेः पश्यादिरिति|पा पाने इत्यस्यैव ग्रहण न तुपा रक्षणे इत्यस्यापि लुग्विकरणालुग्विकरणयोरलुग्विव रणस्यैव ग्रहणमिति केचित् । तन्न । न्यायेन सिद्धौ साहचर्यस्यागतिकव्वात् ॥ . (मृजिदृशोस्थपो वे) ददर्शिथ-दद्रष्ठ । द्रष्टा । अद्राक्षात्, - अद्राष्टाम् ॥
( सुबोधिनी)-सृजिश स्थपो वट्॥कादेर्णादेरिति नियमान्नित्ये प्राप्ते विभाषेयम् । लुङि इरि तो वो ङः ॥ .. (ऋवर्णदृशोङ गुणः) अदर्शत्। ऋ गतौ । ऋच्छति। आर्च्छत् ।
( सुबोधिनी)-ऋवर्णदृशा गुणः ॥ ऋवान्तस्य धातोशेश्च गुणः स्यात ङप्रत्यये ॥ ङाभावे अनिटोऽना मेवत इति वृद्धिः । ततो रारो झसे दृशामित्यारोरः । अत उपधाया इति पुनर्बुद्धौ अद्राक्षीत् ॥