________________
[ आख्याते भ्वादयः]
टीकाद्वयता ।
(६१)
( अयतौ प्रादेरेफस्य त्वम्) प्लायते । अयांचक्रे । आयिष्ट ॥ दय दानगतिरक्षणहिंस दानेषु । दयते । दयांचक्रे ॥ घट चेष्टायाम् । घटते । जघटे । अघटिष्ट || ईह चेष्टायाम् । ईहांचक्रे ॥ ऊह वितर्के । ऊहांचक्रे ॥ कासृ शब्दकुत्सायाम् । कासांचक्रे ॥ षेवृ सेवने । सिषेवे | अविष्ट ॥ प्रुङ् प्लुङ् च्युङ् गतौ । अप्रोष्ट । अप्लोष्ट | अच्योष्ट ॥ गा गतौ । गाते । अन्तरङ्गत्वात्सवर्णे दीर्घः सह । गाते, गाते । गै, गाव, गामहे । जगे । अगास्त ॥ रुङ् गतौ भाषेण च । रवते । रुरुवे | अरविष्ट । अनियमित्येके ॥ मुङ् बन्धने । मविता । अमविष्ट ॥ पूङ् पवने । अपविष्ट ॥ दे त्रै पालने । दयते ॥
(सुबोधिनी ) - अयतौ प्रा दे रेफस्य लत्वम् ॥ प्रादिस्थरेफस्य लत्वमयतौ । अयताविति रेफस्य विशेषणं न तु प्रादेः । येन नाव्यवधानमिति वचनादेकव्यवधाने लत्वम् । पलायते । प्रत्यय इलादौ त्वनेकव्यवधानान्न । कासादिप्रत्ययादाम् । अयांचक्रे । आशिषि सेटो हल होते वा ढः | अयिषीढम् - अयिषीध्वम् । लुङि आयिष्ट । आयिदम्-आयिध्वम् । अथ कथम् ' उदद्यति विततोर्ध्व रश्मिरज्जौ' इति माघः ॥ अत्र शानप्रत्ययेन भाव्यमिति शङ्कितुराशयः । उच्यते । अनुदात्तेत्त्वलक्षणमात्मनेपदमनित्यं चक्षिङो ङित्करणाज्ज्ञापितम् ॥ दय दानगतिरक्षणहिंसादानेषु । हिंसा हननम् । आदानं ग्रहणम् । कासादिप्रत्यवादित्याम् । दयांचक्रे । ऊह वितकें । वितर्कों विचारः॥ गाते इत्यत्र पूर्व प्रत्ययनं सह सवर्णदीर्घे कृते पश्चादादाथ इरिति न आतोन्तो. दनतइति तु प्रवर्तते एव । ते अन्ते परतः तुल्यं रूपमिति भावः । गातेऽत्र आदादिकोऽयमिति हरदत्तादयः । पले तु न भेदः । रुङ् गतौ रेषणे च । रेषणं हिंसा । देङ् त्रैङ् पालने । पालनं रक्षणम् ॥
(तत्त्वदी० ) - अयताविते रेफस्य विशेषणं न तु प्रादेरित्यभिप्रेत्याह-प्रादेरेफस्येति ।। तेन रेफस्याव्यवधानेन पतौ परे लत्वं नान्यत्र । प्रत्ययत इत्यादौ तिशब्देन व्यवधानात् । न च प्लायत इत्यत्राप्यकारेण व्यवधानमेवास्तीति वाच्यम् । येन नाव्यवधानमिति वचनादेकव्यवधानेऽपि प्रवृत्तिसंभवात् । अथ नि रोर्व्यवधानसंभवः । तदर्थं निर्दुरोरित्येव ब्रूयात् || अन्तरङ्गत्वादिति गा अ आते इति सि ते प्रकृत्याश्रयले सवर्णदीर्घे आदाथ इरिति न भविष्यतीति भावः ॥ गैइति ए ऐ ऐ इति वृद्धिरेव । यत्तु कैश्चिदालोपे गे इत्युक्तम् तद्रभसात् ॥
(दङो णादौ दिग्या रेशो द्वित्वाभावश्च) दिग्ये । दासीष्ट ॥
( सुबोधिनी ) - देङो ण दौ दिग्यादेशो द्वित्वाभावश्च ॥ देङ: स्थाने दिगिः स्यात् दिगेर्द्वित्वाभाव: । लिटि नुधातोरित यत्वम् । दिग्ये ॥