________________
( ६२ )
सिद्धान्तचन्द्रिका |
[ आख्याते भ्वादयः ]
( अपिद्दाधास्था मित्सङित्वमाति न तु दीङ: ) (सुबोधिनी) - अपाधास्थाभित्सेर्डित्वमाति तु दीङः ॥ एभ्यः परस्य सेर्डित्त्वं भवति । एषामात् इच्च आत्मनेपदे लुङि ॥
लोपो ह्रस्वाज्झसे ॥ ह्रस्वात्परस्य सेर्लोपो झसे || अदित, अदि`षाताम् ॥ त्रायते । तत्रे । अत्रास्त ॥ प्मिङ ईषद्धने । स्मयते । सिष्मिये । स्मेषीष्ट । स्मेता । अस्मेष्ट । डी बेहायसा गतौ ॥ डयते । डिडये | अडयिष्ट ॥ द्युत दीप्तौ । द्योतते ॥
•
KAA
( सुबोधिनी ) - लोपो ह्रस्वाज्झसे ॥ सेः इति सूत्रम वृत्तमं ॥ ह्रस्वात्किम् । अष्टाम् ॥झसे किम् । अकृषाताम् ॥ डीङ्ग विहायसा गतौ । आकाशेन गमने ॥
( तत्त्वदी ० ) - लोपो हस्वाज्झसे ॥ लोपो ह्रस्वझसा रित्येव सूत्रयितुमुचितम् । पृथक्करणस्य व्यर्थत्वात् | डीङ् विहायसा गतौ ॥ विहायसा आकाशेनेत्यर्थः । ' वा तु पुंस्याकाशविहायसी' इत्यमरोक्तेः ॥ विहायसमिति त्वपपाठः ||
(द्युतः पूर्वस्य संप्रसारणं स्वापेश्व) दिद्युते ।
सुबोधिनी)-ते: पूर्वस्य संप्रसारणं स्वापेश्च ॥ : पूर्वरूपस्य स्वापेश्च संप्रसारणं भवति । सस्वरयकारस्य इः ॥
(घुतादिभ्यो लुङि वा पं पे ङः ) अद्युतत् द्योतिष्ट॥ श्वितावर्णे । अश्वितत्-- अश्वेतिष्ट ॥ ञिष्विदा स्नेहनमो नयोः । अश्वि दत्--अश्वेदिष्ट॥ ञिक्ष्विदा च । अक्ष्विदत्--अवे दुष्ट ॥ ञिमिदा स्नेहने । अभिदत्--अमेदिष्ट ॥ रुच दीप्तावभिप्रीत्तौ च । अरुचत्अरोचिष्ट ॥ घुट परिवर्तने । अघुटत्-- अघोटिष्ट | रुट लुट लुठ प्रतिघाते । अरुटत्-अरोटिष्ट | अलुटत्- अलोष्टि ॥ अलुठत्अलोठिष्ट || शुभ दीप्तौ । अशुभत्-अशोभिष्ट || क्षुभ संचलने । अक्षुभत--अक्षोभिष्ट ॥ णभ तुम हिंसायाम् । नेभे । अनभत्-अनभष्ट ॥ स्रं ध्वंसु भ्रंसु अवस्रंसने । अस्त्रसत् अरु सिष्ट ॥ ध्वंसु गर्तौ च । अध्वसत् - अध्वंसिष्ट ॥ स्त्रम्भु विश्वासे । अस्त्रभत्--अस्त्रभिष्ट ॥ वृतु वर्तने । वर्तते ॥
(सुबोधिनी ) - तादिभ्यो लुङि वा पं पे ङः ॥ ता यः कृषिपर्यन्तास्त्रयोविंशतिधातवस्तेभ्यः परस्मैपदं वा भवति । पक्षे आत्मनेपदं च लङिपे । पक्षे लित्पुषादेरिति ङप्रत्ययः । अनिट्कारिकायां स्विद्यतिरिति निर्देशादयं नेट् । स्वेदिता ॥ घुट् परिवर्तने । परिवर्तनमितस्तो भ्रमणम् । णादिः किदिति कित्त्वात गुणाभावः । जुघुटे ॥ शुभ संचलने । संचलनं प्रकृतिविपर्यासो मथनं च । क्षोभते । दैवादिकः क्र्यादिश्च ॥