________________
[ आख्याते भ्वादयः ] टीकाद्वयोपेता।
(६३) णभ तुभ हिंसायाम् । आद्योऽ विऽर्थेऽपि । 'नभन्तामन्यके समे । मा भूवन्नन्यके सर्वे' इति निरुक्तम् । इमौ दिव दी ज़्यादी च ॥ स्रंसु ध्वंसु भ्रंसु अवस्रंसने । अवस्रंसनमधःपतनम् । परस्मैपदपदं ङः। नो लोप इति नलोपः । अस्रसत् 'नास्त्रसत् करिणां ग्रैवम्' इति रघुकाव्ये। नालंसदित्यपपाठ एव । न चैवं लडो रूपं तत्र परस्मैपदासम्भवादिति भावः ॥ भ्रा भंसु अधः पतने इति देवादिको च । ऋजी भृजी भर्जने । भर्जनं जलं विन तण्डुलादेः सन्तापविशेषः । ईदित्त्वादादीदित इति क्तक्तवत्वानेंट । भृक्तः। भृक्तवान् ॥ ( तत्त्वदी०)-क्षुभ सचल ने । सचलन प्रकृतिविपर्यासो मथनं च ॥
(वृतादिभ्यः स्यसयोर्मा पं पेऽनिटत्वं च) वय॑ति-वतिष्यते । अवृतत्-अवर्तिष्ट ॥ वृधु वृद्धौ । वय॑ति--वधिष्यते । अवय॑त्अवर्धिष्यत । अवृधत्-अपर्धिष्ट ॥ शधु शब्दकुत्सायाम् । शर्धते ॥ स्यन्दू प्रस्रवणे । स्यन्द ते । स्यन्त्स्यति-स्यन्दिष्यते-स्यन्तस्यते । अस्यदत्--अस्यन्दिष्ट-अस् पन्त ॥ कृपू सामर्थे ॥ २ .
(सुबोधिनी)-वृतादिभ्य स्यसयोर्वापंपेनिट्त्वं च॥वृतु वृधु शृधु स्यन्दू कृपू इात वृतादयः । स्यन्दिकृप्वं रूदित्त्वादिड्विकल्पे प्राप्ते इतरेषां नित्यामति प्राप्ते निषेधः। वृतादिभ्यः परस्मैपदं व स्यात् । परस्मैपदे इडभावश्च । स्याप सप्रत्यये च गणकार्यत्वादुभयोर्यलुक्यप्रवृतिः। वर्तिष्यति । विवर्तिषते ॥ शृधु शब्दकुत्सायाम् । शब्दकुत्सा पदेनम् । शद्धजहा पाः । अपानशब्दं त्यजन्तीत्यर्थः॥
कृपो रो लः॥ कृपो फस्य लः ऋकारस्य लकारः॥ कल्पते । चक्लपे । कल्पिषीष्ट ॥
(सुबोधिनी)-कृपो रो लः॥ कृपः उः रः लः इति छेदः । कृपति लुप्तषष्ठीक पदम्। आवृत्त्याऽत्र वाक्यद्वयं बंाध्यम् । उः ऋकारस्येत्यर्थः॥
(तत्त्वदी०) कृपो रो लः इति । कृपः उः रः ल इति छेदः । कृपति लुप्तषष्ठीकम् । आवृत्या वाक्यद्वयसिद्धिरित्याह-ऋकारस्येति ॥ तत्फलं तु अक्ल्पदित्यादिसिद्धिः । यद्यपि क्लपू सामर्थ्य इति पाठेनैव रूपसिकिः सूत्राकरणलाघवं च । कृपणादिसिद्धिस्तु कृप कृपायामित्यस्योगादयो बहुलमिति बहुलग्रहणा प्रसारणे तथापि अचीक्लपदिति सिद्धयर्थः तथा पाठः । तथाहि । ऋलवर्णयोः सावर्यादुपधा तलकारस्य ऋदादेशे अचीक्लपदिति स्यात् । लत्वविधौ ल सिद्धम्, कृपेत्यादौ कृपेः संप्रसारण चेत्यादि कृपेर्बोध्यम् ॥
सिस्योः ॥ उपाधाया गुणो न सिस्योरनिटोः परतः॥क्लप्सीष्ट ॥ (कृपेस्तादौ पं वा पेऽनिटत्वं च) कल्प्ता । आति । कल्पिताकल्प्ता । कल्प्स्यति-कल्पिष्यते--कल्प्स्यते । अक्लपत्-अकल्पिष्ट