________________
(६४)
सिद्धान्तचन्द्रिका |
[ आख्याते भ्वादयः ]
अक्लृप्त ॥ एते द्युतादयो वृतादयश्च । व्यथ दुःखसंचलनयोः । व्यथते ॥
(सुबोधिनी ) - कृपेस्ताद पं वा पेनिट्टत्वं व॥ कृपः परस्मैपदं वा भवति । परस्मैपदे इडभावश्च । लुटि कल्प्ता - कल्पिता । लुङि परस्मैपदे लित्पुषादेरिति ङः अक्लृपत् । ऊदितो वेति वेट । अकल्पिष्ट । इडभावे इ सादिति सिलोपे अक्लृप्त ॥ व्यथ दुःखसंचलनयोः । संचलनं प्रकृतिविपर्यासो मनं च ॥
व्यथेर्णादौ पूर्वस्य यस्य इः ॥ विव्यथे । अव्यथिष्ट ॥ ज्युङ् गत । ज्यवते । जुज्युवे । अज्योष्ट । रमु क्रीडायः म् । रमते ॥
(सुबोधिनी ) - व्यर्णादौ पूर्वस्य यस्य इः । व्यथतेः पूर्वरूपस्य यकारस्येंत्वं भवति लिटि । पूर्वस्य हसादिः शेषः इत्यस्यापवादः इस्ततः थस्य हसादिशेषेण निवृत्तिः । विव्यथे ॥ रमु क्रीडायाम् । माधवस्तूदि माह । पचाद्यप्रत्यये आप | रमा । घञि तुः रामः ॥
व्यापर्युपेभ्यो रमः पम् । विरमति । नरमति । पररमति । उमेरमति । रेमे । बैरंसीत् - अरंस्त ॥ लोक दर्शने । लुलोके ॥ श्लोक संघाते । अश्लोकिष्ट ॥ शकि शङ्कानाम् । शशङ्के । अशङ्किष्ट ॥ अकि लक्षणे । आनङ्के ॥ ठौकृ त्रौ रधिगतौ । डुढाँके । तुत्रौ । अत्रौकिष्ट ॥ लधि भोजननिवृत्तौ ललङ्घे । अलघिष्ट बाधृ विलोडने । बाधते । बबाधे । अबाधि: । नाव नाधृ याच्ञोपतापैश्वर्याशीःषु ॥ स् मांगवुः रोगीपूर
( सुबोधिनी ) - व्यापर्युपेभ्यो रयः ॥ एभ्यः परस्माद्रमतेः परस्मैपदं भवति ॥ श्लोक संघाते । संघातो ग्रन्थः । स चेह ग्रथ्यानस्य व्यापारो ग्रन्थितुर्वा । आisaर्मकः । द्वितीये सकर्मकः ॥ अकि लक्षणे । क्षणं चिह्नम् । नुगशामिति नुकू । आनङ्के ॥ बाधृ विलोडने । विलोडनं प्रतिघातः । नानाधृ याच्ञोपतापैश्वयाशीःषु । याच्ञा भिक्षा । उपतापो रोगः ॥
( नाथ आशिष्येवात्मनेपदम् ) नाथते । अन्यत्र नाथति। ननावें । अनष्टि ॥ दुध धारणे । देधे । अदधिष्ट । स्कुदि आप्लवने । चुस्कुन्दे । अस्कुन्दिष्ट ॥ वदि अभिवादन स्तुस्योः । वन्दते । ववन्दे | अवन्दिष्ट । भदि कल्याणे सुखे च । भन्दे ॥ मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु । मन्दते । ममन्दं । अमन्दिष्ट || पदि किंचिच्चलने । पस्पन्दे ॥ मुद हर्षे । मुमुदे ॥ दद दाने । दददे ।