________________
[ आख्याते भ्वादयः ] टीकाद्वयोपेता।
(६५) यती प्रयत्ने । येते ॥ नित्वरा संभ्रमे । त्वरते। तत्वरे । अत्वरिष्ट । षह मर्षणे । सहते । सेहे । सहिता । इषसहलुभरुषरिषामनपि. तस्येड्वा ॥
(सुबोधिनी )-नाथ आशिष्यवात्मनेपदम् ॥ नाथतेरात् स्यादाशीर्वादेऽर्थे एवान्यत्र तु पम् ॥ स्कुदि आप्रवणे । आप्रवणमुत्प्लवनमुद्धरणं च । इदितो नुमिति नुम् । स्कुन्दते । वदि अभिवादनस्तुत्योः । अभिवादनं नमस्कारः ॥ मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु । मोदः संतोषः । मदो गर्वः। स्वप्न आलस्यम् । कान्तिः शोभा । गतिःप्रसिद्धा ॥ यती प्रयत्ने । प्रयत्न उद्यमः ॥ षह मर्षण । मर्षणम् अपराधे सत्यपि कोपाद्यनाविष्करणम् ॥
(तत्त्वदी०)-भदि कल्याणे सुखे च ॥ कल्याण मङ्गलम् । सुखमात्मगुणः ॥ मदीति । मोदो हर्षः। मदो गर्वः । स्वप्न आलस्यम् ॥दददे इति॥न शसददेत्येत्वपूर्वलोपाभावः॥ षह मर्षणे ॥ मर्षणं क्षमा । सहिता । इषसहेति वेट् ॥
(सहिवहोरोदवर्णस्य ढलोपे सति ) सोढा । असहिष्ट ॥ गाहू विलोडने । गाहते । जगाहिषे-जघाक्षे । जगाहिव-जगाहिध्वेजघाटे । गाहिषीष्ट-घाक्षीष्ट । गाहिता-गाढा । गाहिष्यते-घाक्ष्यते । अगाहिष्ट-अगाढ । अघाताम् । अघादम् ॥ गृहू ग्रहणे । जगृहिषेजघृक्षे ।जगृहिद्वे-जगृहिध्व-जवृद्धे । गहिषीष्ट-वृक्षीष्ट । गर्दा । गर्हिष्यते । घर्ध्यते । अगर्हिष्ट-अक्षत ॥
(सुबोधिनी)-सहिवहोरोदवर्णस्य ढलोपे सति ॥ सहिवहारवर्णस्यौत्वं भवति ढस्य लोपे सति । इषसहेति वट् । सहिता । इडभावे हो ढ इति ढत्वम् । तथोर्द्ध इति धत्वम् । ष्टुभिः ष्टुरितिष्टुत्वम् । ढि ढो लोप इति ढलोपः । ततोऽनेन ओत्वे सोढा॥ गाहू विलोडने । ऊदित्त्वादिड्वा । जगाहिषे । इडभावे तु हो ढ इति ढत्वम् । आदिजवानामिति घः। षढोः कः से इति कः । कात्परस्य सस्य षत्वम् । जघाक्षे । सेटो हलादिति वा ढः। जगाहिट्वे-जगा इव । इडभावे तु आदिजवानामिति घः। ढि ढो लोप इति ढलापः । जघाट्वे । लुङि अगाहिष्ट । इडभावे तु ढत्वे कृते झसादिति सिलोपः। ततो धत्वष्टुत्वढलोपाः । अगाढ ।। गृहू ग्रहणे । ऊदितो वेति वेद । इडभावे हो ढ इति ढत्वम् । आदिजवानामिति घः । षढोरिति कत्वम् । षत्वं च । जिघृक्षे । सेटो हलादिति वा ढः। जगृहि-जगृहिध्वे । इडभावे जघृढ़े। आशिषि गर्हिषीष्ट सिस्योरीत गुणाभावे घृक्षीष्ट । लुटि गर्हिता-गर्दा । लाट गर्हिष्यते-घयते । लङि अग