________________
(६६)
सिद्धान्तचन्द्रिका । [ आख्याते भ्वादयः ] हिष्यत-अघयंत । लुङि अगर्हिष्ट। इडभावे हशषान्तादिति सक । हो ढ इति ढत्वम् । आदिजबानामिति घः । षढोरिति कः । षत्वं च । अघृक्षत ।। (तत्त्वदी० )-सोढेति इडभावपक्षे ॥
(आति सको लोपः स्वरे )अवृक्षाताम्, अवृक्षन्त । अघृक्षध्वम् । इत्यात्प्रक्रिया ॥ - (सुबोधिनी )--आति सको लोपः स्वरे ॥ स्वराद वात्मनेपदे परे सको लोपः। षष्ठीनिर्दिष्टस्येत्यन्त्यलोपः । अघृक्षाताम् ॥ इति सुबोधिन्यामात्प्रक्रिया ॥
(तत्त्वदी०)-आति सक इति ॥ षष्ठीनिर्दिष्टत्वादन्त्य य ॥ लोकेशकरसंज्ञेन विद्यानगरवासिना । कृतायामिह टीकायामगादातो निरूपणम् ॥
___ इति तत्त्वदीपिकायामात्प्रक्रिया ॥ राज दीप्तौ । रेजतुः-रराजतुः। रेजे-रराजे। अराजीत्, अराजिष्टाम् । अराजिष्ट ॥ खनु खनने । चखान, चतुः, चख्नुः । खायात खन्यात् । अखानीत्, अखनीत् ॥ हृञ् हरणे । जहार । ऋदन्तात्थपो नेट् । जहर्थ । जहे । ह्रियात् ॥ ।
(सुबोधिनी )-राज दीप्तौ ॥ दीप्तिस्तेजः । फणराज़ इत्येत्वपूर्वलोपौ । रेजतुः, रराजतुः ॥ खनु खनने । खननमवदारणम् । उदित्त्वात क्वायां वेट् । खनित्वा खात्वा । गमां स्वरे इत्युपधालोपः । चख्नतुः । जनसनख नामित्यात्वं वा । खाया खन्यात्। अतो हसादेरिति वा वृद्धिः। अखानीत्,-अखनीत ॥हज हरणे। हरणं-प्रापणं, स्वीकारः, स्तेयं, नाशनं चेति चत्वारोऽर्थाः। भारं हरति-प्रापयतीत्यर्थः । अंशं हरतिस्वीकरोतीत्यर्थः। स्वर्ण हरति-चोरयतीत्यर्थः।पापं हरति-नाशयतीत्यर्थः। ऋदन्तात्थप इति नेट् । जहर्थ । कादेर्णादेरितीट् जहिव । यादाविति कि । हियात् ॥
(तत्त्वदी० )-राज़ ऋदित्त्वमङ्युक्तोपधाह्रस्वादिनिवृत्त्यर्थम् ॥ हनु हरणे ॥ हरण प्रापण, स्वीकारः, स्तेयं, नाशनं च । ग्रामं हरति । अंशं हरति । पर्ण हरति । पापं हरति ।
उः॥ ऋवर्णस्य सिस्योरनिटोन गुणः॥ हृषीष्टाअहार्षीत्। अहृत॥ दान आर्जवे । गुब्भ्यः । दीदांसति । दीदासांचकार ॥ शान तेजने । शीशांसांचक्रे ॥ गुहू संवरणे ॥ - (सुबोधिनी)-उः ॥पष्ठयेकवचनान्तमिदम् । ऋवर्णान्तस्य धातोर्गुणो न स्यात् अनिटि सिप्रत्यये सीष्टादौ च । हन्नृतः स्यप इतीट । हरिष्यति । लोके स्वदिति सिलोपः। अहृत ॥ दान आर्जवे। ऋजोर्भाव आर्जवम् तस्मिन्नर्थे । अस्मात् गुब्भ्यः इति सः । यः से इति पूर्वस्येत्वम् । मानादीनामिति पूर्वस्य दीर्घः । दीदांसति ॥ शान