________________
आख्याते भ्वादयः ]
टीकाइयोपेता |
( ६७ )
तेजने । तेजनं तीक्ष्णीकरणम् । धानेर्निशाने सः । अर्थान्तरे त्वननुबन्धकौ चौरादिका - विमौ । दानयति । शानयति ॥
(तत्त्वदी ० ) - उः ॥ षष्ट्येान्तम् । सिस्योरिति ॥ भूते सिः सीष्टादिः सी तयोर्डित्वादेगुणाप्राप्तौ नियमार्थमिदम् । ऋवर्णस्वानयोः परतो गुणो न । तेन वेवेष्टीत्यादौ भवत्येव । विशेषाप्रतिपादकलिङ्गाभावादृवर्णमात्रं गृह्यते न तु ऋगताविति । आरम्भसामर्थ्यादुपधाया न । अन्यथा सिस्योरित्येव सिद्धे किममेन ॥
( गुहेरुपधाया ऊद् गुणहेतौ स्वरे ) जगूहतुः । जुगू हिथ-जुगोठ । जुगुर्हिषे- जुघुक्षे । जुगुहिध्वे-जुगुहिङ्खे-जुघूङ्खे | गूहिषष्टि- घुक्षीष्ट । गूहिता - गोढा । गूहिष्यति, घोक्ष्यति ॥
(सुबोधिनी ) - गुहेरुपधाया ऊगुणहेतौ स्वरे । । गृह उपधाया ऊत्स्यात् गुणविधायके स्वरादौ प्रत्यये परे । र हति । ऊदितो वेति वेट् । जुगू हिथ । इडभावे हो ढ इति ढत्वम् । तथोर्द्ध इति थस्य धः 'टुत्वं च । जुगोढ । हो ढ इति ढत्वम् । आदिजवानामिति घः । षढोरिति कः षत्वं च । जुघुक्षे । जुगुहिध्वे । सेटो हलादिति वा ढः । जुगुहि । इडभावे हो ढ इति ढत्वम् । आदिजबानामिति घत्वं ष्टुभिःटुरिति ढः । ढिढो लोप इति ढलोपदीर्घौ जुघूढे । लुङि अग्रहीत् । इडभावे हशषान्तादिति सकू। आदिजानामिति घः । अघुक्षत् । आति अगूहिष्ट । इडभावे तु स ||
( दुह दिहलिहगुहूभ्यः राको लुग्वा वकारतवर्गयोराति) अगूढअघुक्षत, अघुक्षाताम् अक्षन्त । अगूढाः - अघुक्षथाः । अघुक्षाथाम् । अघूढम् - अघुक्षध्वम् । अनुक्षावहि-अगुह्वहि, अघुक्षामहि । अगूहिष्ट । अधुक्षत् - अगृहीत् । भज सेवायाम् । भेजिथ - बभक्थ | भेजे । भक्षीष्ट । अभाक्षीत् । अभक्त ॥ श्रिञ् सेवायाम् । शिश्रियतुः । शिश्रिये । श्रीयात् । श्रयिषीष्ट । श्रयिता । अशिश्रियत् । अशिश्रियत। त्विष दीप्तौ । तित्विषे । त्विक्षीष्ट । त्वेष्टा । वेक्ष्यते | अविक्षत् ॥ स्पर्श बाधनस्पर्शनयोः । पस्पाश । पस्पशे । अस्पशीत् - अस्पाशीत् । अस्पंशिष्ट ॥ लष कान्तौ । लष्यति-लषति । लप्यते -लषते । लषिता ॥ रञ्ज रागे । रजति । ररविथ = ररथ । ररञ्जे । रज्यात् । रङ्क्षीष्ट । अराङ्क्षीत् । अरक्त ॥ भृ भरणे । भरति । बभर्थ । बभृव । बभृढ़े | भर्ता ॥ धृञ् धारणे । दधर्थ । दधिध्वे-दधिढे । अधात् । अधृत ॥ णी प्रापणे । निनयिथ-निनेथ । निन्ये । अनैषीत् । अनेष्ट ॥ टुयाच याच्ञायाम् । याचति । ययाचे । अयाचीत् । अयाचिष्ट ॥ यज देवपूजासंगतिकरणदानेषु । इयजिथ इयष्ठ । अयाक्षीत् । अयष्ट । अयडू