________________
(६०)
सिद्धान्तचन्द्रिका । [ आख्याते म्वादयः ] ः॥ अनपि नेर्लोपो न विडामन्ताल्वाय्येन्विष्णुषु । ___(सुबोधिनी)--जेः॥ जेरिति जिजिङोः सामान्येन ग्रहणम् । इडादिषु प्रत्ययेषु परेषु जेर्लोपो नान्यत्र।अनपि जेलोपः स्यात् इटि । कामयिता । आनि कामयामास । विशादेरन्त इत्यौणादिकेन्त मण्डयन्तः। आलुप्रत्यये स्पृहयाः । वादेराय्य इत्यौ
णादिके आय्ये स्पृहयाय्यः। इत्नुप्रत्यये औणादिके स्तनयित्। इष्णुप्रत्यये छान्दसिके वीरुधः पारयिष्णवः ॥
(तत्त्वदी०)--ओरिति ॥ त्रिनिङोः सामान्येन ग्रहणम् । विडियादि । इट् कारयिता । आम् कारयामास । अन्तः । मण्डयन्तः । औणादिकोऽन्तः । आलुः । स्पृहयालुः । स्पृहीत्यादिनोक्त आलुः । आय्यः स्पृहयाय्यः । औणादिक आय्पः । इ नुः स्तनयित्नुः । इष्णुः । पारयिष्णवः । एषु ओर्लोपो नेत्यर्थः ॥
अङि लघौद्रस्व उपधायाः॥ अङि सत्युपाया ह्वस्वो भवति पूर्वस्यातो लघुनि धात्वक्षरे इकारः ॥
(सुबोनिनी०)-अङि लघौ हस्व उपधायाः॥ येन नाव्यवधानं तेन व्यवहितेऽपीति वचनसामर्थ्यात् धात्वक्षरस्थककारे व्यवधानेऽपि पृस्यातोऽत्रेत्वम् । अजजागरदित्यत्र वनेकवर्णव्यवधानत्वान्नेत्वम् ॥ उपधायाः किम । अचकासत् ।
(तत्त्वदी०)अङि लघौ द्वस्व उपधायाः॥ धात्वक्षरस्य ककारेण व्यवधानेऽपि येन नाव्यवधानं संभवति तेन व्यवहितेऽपीति वचनसामर्थ्याद्भवति । अजजागर देत्यत्र त्वनेकवणव्यवधानत्वान्न भवति । न चाचिक्षणदित्यत्राप्यनेकवर्णव्यवधानत्वान्न भविष्यतीति वाच्यम् । अत्स्मृदृत्वरेतीत्वबाधनार्थमत्वेन संयोगव्यवधाने भवतीति ज्ञापितत्वात्।तेन स्वरहससमुदाय एव न भविष्यतीतिबोध्यम् ।
लघोर्दीर्घः ॥ अङि सति पूर्वस्य लघोर्दी! भ प्रति लघुनि धात्व
क्षरे परे ॥ अचीकमत । ओरभावे ॥ ___ (सुबोधिनी)-लघौ दीर्घः ॥ अङि लघावित्यतो लघा वित्यनुवृत्तम् ॥ लघोः किम् । अचिक्षणत् । अरभावे ॥
(तत्त्वदी०)-लघोर्दीर्घः ॥ अत्राङि लघावित्यनुवर्तते इ याह-लघुनीत्यादि ।। अत्र प्राञ्चः हसादेर्धातोः पूर्वस्य लघोर्दी? भवति । तेनारिर इत्यादावप्रसङ्ग इति । वस्तुतस्तु अत्र दीर्घाप्राप्तिरेव लघुधात्वक्षरपरत्वाभावात् ॥
(कमेरद्वित्वे ) अचकमत । अय गतौ । अयते ॥ (सुबोधिनी)-कमरेडू द्वित्वे ॥ अञ्यन्तात्कमेरङ ग्यात् धातोदित्वं लुङि सेरपवादः ॥