________________
[ आख्याते भ्वादयः ] टीकाद्वयोपेता। (मानादीनां पूर्वस्येतो दीर्घः) मीमांसते । बध निन्दायाम्। आदिजबानामिति भः। बीभत्सते॥ पण व्यवहारे स्तुतौ च । पन च। पणायति। स्तुतावेजायः। पणते। पणायांचक्रे । पेणे॥एवं पन । कमु कान्तौ ॥
(सुबोधिनी)-मानादान पूर्वस्येतो दीर्घः ॥ एषां पूर्वस्येकारस्य दीर्घः स्यात् । मान विचारणे । बध निन्दायाम् । दान आर्जवे। शान तेजने । इत्यादि । मानर्जिज्ञासायां सः।मीमांसते । जिज्ञासां करोतीत्यर्थः। बध निन्दायाम् । निन्दा परापवादः । बधेश्चित्तविकारे सः । आदिजबानामिति भः । खसे चपा इति तः। बीभत्सते । ग्लानिं करोतीत्यर्थः॥ण व्यवहारे स्तुतौ च । पन च । क्रयविक्रयरूपो व्यवहारःपनेति स्तुतावित्यनेन बध्यते। पृथग निर्देशात्।पनिसाहचर्यात पणेरपिस्तुतावेवायप्रत्ययः । स्तुतावनुबन्धस्य केवले चरितार्थत्वादायप्रत्ययान्तादात्मनेपदंन भवति । पणायति । यत इत्यल्लोपे पणार ांचकार।भट्टिस्तु व्यवहारेऽप्यायप्रत्ययं कृतवान् । “न चापलेभे वणिजा पणायाम्" इ त । व्यवहारमित्यर्थः। आयान्तादप्रत्यये आप्॥कमु कान्तौ । कान्तिरिच्छा।जिङभावे उदित्त्वात् क्त्वायामिड्विकल्पः। कमित्वा--कान्वा क्तक्तवत्वोस्तु कचिद्वेट् इात निधात् । कान्तः । कान्तवान् ॥
(तत्त्वदी०)-पन चेति ॥ व्यवहारे स्तुताविति चार्थः । पणायतीति । व्यवहारे पणते. इत्यत्र चरितार्थत्वादनुबन्धस्यायप्रत्य मान्न त्वात् ॥ . (कमः स्वार्थे ञिङ नपि तु वा) कामयते । कामयांचक्रे । चकमे।
(सुबोधिनी)-कमेः स्वार्थे ञिङनपि तु वा ॥ कमर्जिङ स्याच्चतुर्यु नित्यमनाप वा धात्वर्थे ।
अरङ् द्विश्च ॥ ज्यन्ताद्धातोः कर्तरि अडू लुङि ॥ सेरपवादः । धातोश्च द्वित्वम् ॥
(सुबोधिनी)-ओरङ् द्विश्च ॥ रित्यस्य प्रत्ययत्वात्तदन्तलाभः । अप् कर्तरीत्यतो मण्डूकप्लुत्या कर्तरीत्यनुवृत्तम् । डकारोङ लघाविति विशेषणार्थः। आङि परे चकारात् ञ्यन्तस्य धातोत्विम् । तच्च नित्यत्वात् जिलोपे कृते प्रवर्त्तते ॥ कर्तरि किम् । अकारयिषातां घटौ कुलालन ॥
(तत्त्वदी०)नेर द्विश्च ॥ अस्य प्रत्यययत्वात्तदन्तलाभः । अप् कर्तरीत्यतो मण्डूकप्लुत्या कर्तरीत्यनुवर्तते ॥ कर्तरि किम् । अकारयिषातां घटौ कुलालेन । अत्राहुः । ङकारोङि लघाविति विशेषणार्थः । चकारस्य वाक्यभेदेन व्याख्यानात् श्रिश्रद्रुभ्यो ङः कचिद्विकल्पेनेत्यादि । अत्रेद वक्तव्यम् । अशिश्रियदित्यादौ डकारस्य गणप्रतिषेधार्थतया दृष्टत्वेनान्यार्थताया अन्याय्यत्वात् । अचूचुरदित्यादौ तु ह्रस्वविधिसामर्थ्यादेव न ॥