________________
(५८)
सिद्धान्तचन्द्रिका |
[ आख्याते भ्वादयः ]
(दीपजनबुध पूरितायिष्यायिभ्यो वा इण् तनि कर्तरि सेरपवादः) (सुबोधिनी) - दीपजनबुधपूरितायिष्यायिभ्यो वाइण् तनि कर्तरि सेरपवादः ॥ दीपी दीप्तौ । जनी प्रादुर्भावे । बुध अवगम ने। पूरी आप्यायने । एते दिवा - दयः ॥ ता संतान पालनयोः । ओप्यायी वृद्धौ । एतौ नौवादिकौ ॥ एभ्य इण प्रत्ययां वा स्यात् कर्त्रर्थे तनि परे । सेरपवादः ॥
1
( तत्त्वदी ० ) - दीपजनेति ॥ अत्र पण्डिताः । दीपपूरा देभिरात्मनेपदिभिः साहचर्यात् बुध बोधने बुध जनने इति परस्मैपदिनो न ग्रहणम् । तेनाभ्यां कर्मव्यतिहारे आत्मनेपदे तनि न भवति ||
लुक् ॥ इणः परस्य तनो लुक् ॥ अप्य यि - अप्यायिष्ट ॥ तान संतानपालनयोः । तताये । अतायिष्ट ॥ वल वल्ल संवरणे । वलते । वल्लते ॥ टुभ्राज टुभ्राशु टुभ्लाशृ दीप्तौ । भेजे - बभ्राजे । भ्राश्यते-भ्राशते । भ्रंशे -- बभ्राशे । भ्लाश्यते । भ्लाश ।। म्लेशे बभ्लाशे ॥ तिज निशाने क्षमायां च । गुब्भ्यः । तितिक्षते । तितिक्षांचक्रे ॥ गुपः गोपनकुत्सनयोः । जुगुप्सते ॥ मान विचारणे ॥
(सुबोधिनी) - लुक् ॥ इणू तनीत्यत इणिति तनीति चानुवृत्तम् । इणिति पञ्चम्या विपरिणमनीयं तनीति षष्ठ्या च । अध्याय- अप्यायिष्ट ॥ ना संतान पालनयोः । संतानः प्रबन्धः॥ टुभ्राजू टुभ्राट टुभ्लास्ट दीप्तौ । दीप्तिस्तेजः । फ णराजभ्रानृ इत्येत्वपूर्वलोपो !
जे-बाजे । भ्राशभ्लाशिति वा यप्रत्ययः भ्राश्य । ॥ तिज निशाने । निशानं तीक्ष्णीकरणम् । गुब्भ्य इति तिजेः क्षमायां सः । तितिक्षते क्षमां करोतीत्यर्थः ॥ गुप गोपनकुत्सनयोः । गोपनं रक्षणम् । गुपेनिन्दायां सः । जुगुप्सते । निन्दां करोतीत्यर्थः ॥
( तत्त्वदी०) लुक् ॥ अत्रेण तन्यकर्तरीति पूर्वसूत्रादनुवृत्तं तनीति षष्ठ्या विपरिणमनीयमिणिति पञ्चभ्या । तत्र षष्ठीनिर्देशादन्त्यलोपः । आदेरित्यस्यानुवृत्त्या आदेरपि लोप इति सूत्रपाठपक्षे । कचित्तु लुगिति पाठः । तत्र सर्वस्य तनो लुग्भवतीति । अत्रेदं व कव्यम् । अत्र तनीति नानुवर्त्यम् । इणः परस्य लुक् स्यात् इत्येव व्याख्येयम् । तथा चेणः परस्याः यस्यासंभवात्तन एव लुग्भविष्यति न चाकारितरामित्यत्रातिप्रसङ्गः । तत्रासिद्धत्वेन तनः इण्परत्व भावात् !! निशाने इति ॥ निशानं तीक्ष्णीकरणम् ॥
यः से ॥ पूर्वस्यात इत्से ॥
( सुबोधिनी ) - यः से ॥ इ अः से इति पदच्छेदः । पूर्वस्येत्यनुवृत्तम् ॥ तपरः किम् । पापचिषति । यङन्तात्सः ॥
(तत्त्वदी ० )- यः से इति ॥ इ अः से इति छेदः ॥