________________
[ आख्याते धादयः ]
टीकाद्वयोपेता। तेपते । तितेपे । तेपिषीष्ट । अतेपिष्ट ॥ ष्टिपू । स्तेपते । तिष्टिपे । तेपिषीष्ट ॥ष्टेपृ । स्तेपते । तिष्टेपे । स्तेपिषीष्ट ॥ जभीजृभीगात्रविनामे । (रधिजभोः स्वरे नुम् ) जम्भते । अजम्भिष्ट ॥ जृम्भते - जजृम्भे ॥ ष्टुभ स्तम्भे । विष्टोभते । तुष्टुभे । स्तोभिता । स्तोभिषीष्टे ॥ क्षमूष सहने । क्षमते । चक्षमे । चक्षमिषे-चक्षसे ॥
मोनो धातोः॥ मान्तस्य धातोर्मकारस्य नः स्यात् झसे पदान्ते वमयोश्च ॥ चक्षमिवहे--पक्षण्वहे । चक्षमिमहे-चक्षण्महे । अक्षमिष्टअक्षस्त ॥ क्नूयी शब्दे उन्दे च। क्रूयते । अक्नूयिष्ट ॥ क्ष्मायीं विधूनने । क्ष्मायते । चल्माये । अक्ष्मायिष्ट ॥ स्फायी ओप्यायी वृद्धों। स्फायते । पस्फाये । अस्फायिष्ट । प्यायते ॥
(सुबोधिनी)-स्वजतेर्वाि कित्त्वम्॥स्वजतेः परस्य लिटो वा कित्त्वं भवति। सदिस्वचोरिति परस्य नषः। पारेपस्वजे । झसादिति सिलोपः । अस्वङ्क्त।।तृफलभजत्रपामित्येत्वपूर्वलोपौ । त्रेपे । उदितो वेति वेट् । त्रप्सीष्ट-त्रपिषीष्ट । लुङि झसादिति सिलोपः।अत्रप्त॥तिपृ तेपृ ष्टिपृपृक्षरणे।आद्योऽनिटाक्षीरस्वामी त्वयं सेडिति बभ्राम। कादर्णादरिति नित्यमिट् । तितिपिये। सिस्यो।उपधाभूतस्य नामिनो गुणो नानिटि। सिप्रत्यये सीष्टादौ च परे। लुडि सादिति सिलोपः। अतिप्त॥जभी भी गात्रविनामें गात्रस्वंदे इत्यर्थः। ईदित्त्वात् पादीदित इति क्तक्तवत्वोर्नेट् । रधिजभोः स्वरे नुम् । एतयोर्नुमागमः स्यात् स्वरे ॥ र हिंसायाम । जिप्रत्यये तु रन्धयतीत्यत्र जिनिमित्ता परापि वृद्धिनित्येन नुमा बाध्यत । स्वरे किम् । रब्धा । जब्धा॥ष्टभ स्तम्भे । स्तम्भो निरोधः ॥ क्षमूषु सहने । षका: विद्भिदामङ इत्यङ्प्रत्ययार्थः । मो नो धातोरिति मस्य नः। अवकुप्वन्तरेऽपीति णत्वम् । चक्षण्वहे ॥ क्नूयी शब्द उन्दे च । उन्दः क्लेदनमाद्रीभाव इत्यर्थः ॥
(तत्त्वदी० )--परिषस्वजे इति । कित्त्वान्नलोपः । सदिस्वोरिति परस्य षत्वनिषेधः ॥ त्रप्सीष्टेति ॥ ऊदितो वेति वेट् । चक्षण्महे इति ॥ इडभावपक्षे वयोश्चति मस्य नत्वम् ।। क्नूयी शब्दे उन्दे चेति । ई दित्त्वं तक्तवत्वेरिडभावार्थम् ।
(लिड्यङोः प्यायः पी) पिप्ये ॥ (सुबोधिनी)-लिड्यङोः प्यायः पी ॥ लिटि यङि च प्यायः पी। आदौ परत्वात् पाभावे पश्चात् पीशब्दस्य द्वित्वे कृते नुधातोरिति यः । पिप्य । यङि पेपायत ॥ ___(तत्त्वदी०)-पिप्ये इति ॥ आदौ परत्वात्पीभावे पुनः प्रसङ्गविज्ञानात्पीशब्दस्य द्वित्वम् । ततोऽनेकस्वरपूर्वकत्वाद्यत्वम् ॥