________________
[ उत्तरकृदन्तप्रक्रिया ] टीकाद्वयोपेता।
(३३५) अटाटयेत्यस्मात् प्रत्ययान्तापक् प्रत्ययः। अनपि चेति यलोपः । यत इत्यलोपः । आप च । अटाट्या ॥ आर उपवेशने । निपातनाद्यक् । आस्या॥जागृ निद्राक्षये । अस्मात् शयगकारप्रत्यया निपातनाद्भवन्ति । शप्रत्यये शित्त्वाच्चतुर्वत्कार्यम् । तेन यकू चतुर्विति यकू। जागतीण्णङिद्भिन्नोत गुणः आप च । जागर्या । यकि तु जागर्तेरिति गुणः । जागर्या ! अकारप्रत्यये गुणः । जागरा ॥ (तत्त्वदी०)-इच्छेति । इच्छादयो निपात्याः ॥ परिसर्येति ॥ परिसरणम् ॥ (हनस्तः) हत्या ॥ (सुबोधिनी)-हनस्तः।। अनुपसर्गे नाम्न्युपपदे हन्ते वे क्यप् स्याद्धातानस्य तश्च ॥ ब्रह्मणो हननं ब्रह्महत्या ॥ (क्तिः ) धातोः क्तिः स्त्रियां भावे ॥ कृतिः। बुद्धिः । स्मृतिः ॥ अमान्तस्येति दीर्घः । शान्तिः । दान्तिः । कान्तिः। शान्तिः ॥ हे हूतिः । ऊढिः। स्पातिः॥
(सुबोधिनी)-क्तिः ॥ बातोः स्त्रीलिङ्गे भावादी क्तिप्रत्ययः स्यात् ॥ घञोऽपवादः। डुकृञ् करणे। कृतिः।बुध अवगमने।तथोर्ध इति तस्य धः। झबे जबा इति पूर्वधस्य दः॥ बुद्धिःस्मृ चिन्तायाम् । स्मृतिः ॥ शमु दमु उपशमे । कमु कान्तौ । क्षमृष् सहने । अमान्तस्य विङतीति दीर्घः । शान्तिः । दान्तिः। कान्तिः। शान्तिः ॥ .... ( तत्त्वदी० )-क्तिः ॥ त्रयां यजामित्यतः स्त्रियामित्यनुवर्तते ॥ -- ( हबक्त्योर्नेट) स् शीतिः ॥
(सुबोधिनी)-हबक्त्योर्नेट् ॥ हवप्रत्याहारक्तिप्रत्यययोरिण्न स्यात् ॥ शीङ् स्वप्ने । संशीतिः ॥
( तत्त्वदीय)-हबक्त्यं रिति ॥ हबप्रत्याहारः हबश्च क्तिश्च हबक्ती तयोरित्यर्थः ॥ ... (ग्रहादीनामिट) निगृहीतिः ॥ - (सुबोधिनी)-ग्रहादीनामिट ।। ग्रहादीनां क्तिप्रत्ययस्येट् स्यात् ॥ ग्रह उपादाने । ग्रहामिति संप्रसारण- । ईटो ग्रहामिति दीर्घः। निगृहीतिः ॥ पठ व्यक्तायां वाचि । निपठितिः ॥ . ( तत्त्वदी०)-ग्रहादीनामिति ॥ पूर्वेण निषेधे प्राप्ते वचनम् । स्फातिः । यवयोरिति यलोपः । न च स्फायः सभी ति कितीत्युक्तेरत्रापि स्फीविष्यतीति वाच्यम् । क्तक्तवत्वोरेव तत्राधिकृतत्वेन लाभात् नान्यस्य : स्फीतिकाम इत्यत्र क्तान्तात् जौ तत इप्रत्यये समाधेयम् ॥
(ग्लादेनिः )ग्लानिः । म्लानिः। त्वरतेर्वस्योत्वम् तृणिः॥