________________
सिद्धान्तचन्द्रिका। [उत्तरकृदन्तप्रक्रिया ] (सुबोधिनी)-ग्लादेनिः॥ ग्लादेर्धातानिः प्रत्ययः स्यात् ॥ ग्लै म्लै हर्षक्षये । ग्लानिः । म्लानिः ॥ जित्वरा संभ्रमे । ज्वरत्वरेत्यू: तूणिः ॥
(ऋल्वादिभ्यः क्तर्निः) कीणिः । गीणिः । लुनिः। धूनिः । ( सुबोधिनी)-ऋल्वादिभ्यःक्तनिवर्णान्तात् ल्वादिभ्यश्च परस्य तंनिः स्यात् ॥ कृ विक्षेपे । ऋत इरितीर । 'खो िहसे' इति दीर्घः । कीर्णिः ॥ गृ निगरणे । गीर्णिः॥ लूज्ञ छेदने । लुनिः॥धूज कम्पने । धृनिः ॥
(संपदादेः किब्वा) संपदनं संपत् । संपत्तिः । कर्तरि क्तिः ॥ (सुबोधिनी)-संपदादेः क्विन्वा ॥ पक्षे क्तिः । पद गतौ । संपत् । विपत् । संपत्तिः । विपत्तिः । कर्तरि क्तिः॥
(संज्ञायाम ) प्रकुरुते इति प्रकृतिः॥ ( सुबोधिनी)-संज्ञायाम् ॥ धातोः कर्तरि क्तिः यात्संज्ञायां वाच्यायाम् ॥ प्रकुरुते इति प्रकृतिः ॥
(पिद्भिदामङ) पितो धातोर्भिदादेश्च स्त्रियामङ्॥पचा। मृजा।। ( सुबोधिनी)-षिद्भिदामङ्॥ पिता धातोभिदादिभ्यश्च स्त्रियामङ्. स्यात् ॥ डुपचव् पाके। आबत इत्याए । पचा ॥ मृजूषु शुद्धौ । मजा । कथं तर्हि 'मधुसुरभिमुखाब्जगन्धलब्धेः' इति माघः ॥ 'प्रेक्षोपलब्धिश्चित्संवत्' इत्यमरश्च ॥ पित्वादिहाङप्रत्यय उचितः सत्यम् । 'अनर्थकास्तु प्रतिवर्ष मनुपलब्धः' इति भाष्यप्रयोगाद्धाहुलकात् क्तिप्रत्ययोऽपि बोध्यः॥ (तत्त्वदी०) षिद्भिदामिति ॥ ष इयेषां ते षितः ते ६ भिदश्च तेषम् ॥ (ऋतोऽङि गुणः ) जरा । भिदा । छिदा । कृपा । क्षिपा। गुहा।। (सुबोधिनी) ऋतोऽङि गुणः॥ ऋतो धातोगुणः स्यादङि परे ॥ जृषिष् वयोहानौ । जरा॥भिदिर विदारेणऽर्थे भिदा । अन्या भिद्यते इति भित्तिः कुड्यम्॥ छिदिर द्वैधीकरणे । छिदा । द्वैधीकरणे एवायम् । अन्यत्र तु छिद्यते इति छित्तिः छिद्रम् । क्रपः संप्रसारणं च । क्रप कृपायामस्य संप्रसारणं स्यादङि परे । कृपा ॥ क्षिप प्रेरणे । क्षिपा ॥ गुहू संवरणे । गुहा ॥ __ (तत्त्वदी०) भिदेति विदारणे एव । अन्यत्र भित्तिः । छेत्तिः ॥गुहेति कन्दरौषध्योः । अन्यत्र गूढिः॥
(गुरोईसात् ) गुरुमतो हसान्तात्त्रियामङ् । न क्तिः ॥ईहा । ऊहा । कुण्डा ॥