________________
[आख्याते यङ्लुगन्तप्र०] टीकाद्वयोपेता।। ( १५७ ) हौ झसादिर्हेरिति धिः । चोकूद्धि । अर्चीकूर्दीत्-अर्चीकू । रात्सस्योत तलोपो न । सिपि द इति दस्य रः। रात्सस्यति सलोपः । वोवि हसे इति दीर्घः । अचोकूःअचोकूर्दीः । लुङि अचोकूर्दीत् । डुकृञ् करणे । ऋदन्तानामृदुपधानां च यङ्लुकि पूर्वस्य रिक्रीकः ॥ अतिशयेन करोति चर्कगीत-ईडभावे चर्कति । द्वरित्यन्तोऽत् । रत्वम्। चक्रति । विधिलिङ चकृयात् । लोटि चर्करीतु-चर्कर्तु-चकृतात् । लङि अचर्करीत् । ईडभावे दिस्योर्हसादिति दिसिपोर्लोपः। अचर्कः।आशिषि लिङि यादादाविति रिङ । चक्रियात्। लुङि णित्पे इति णित्त्वात् धातोर्नामिन इति वृद्धिः। अचर्कारीत् । वृतु वर्तने । लटि ईट्पक्षे द्वेः स्वरेऽपीति न गुणः । वर्वृतीति-ईडभावे वर्ति । विधिलिङि वर्वृत्यात् । लोटि इटि वर्वृतीतु--ईडभावे वर्वर्तु-वर्वृतात् । हौ झसाद्धिरिति धिः । वर्वृद्धि । लङि अवतीत् । ईडभावेरात्सस्यति तलोपो न।अवर्वत । दिस्योर्हसादिति दिप्सिपोर्लोपः। सिपि पक्षे वावसाने इति दः। द इति दस्य रः। रिलोपो दीर्घश्चेति रलोपपूर्वदीर्घो। अवर्वाः-अवर्वत् । ईटि अवतीः। लिटि वर्वर्तामास । वर्वृत्यात् । वर्वर्तिता । लटि गणनिर्दिष्टत्वात् वृतादिभ्यः स्यसयोरिति न । वर्वतिष्यति । अवर्वतिष्यत् । लुङि गणनिर्दिष्टत्वात् लित्पुषादेरित ङो न । अवर्वर्तीत् ॥ वञ्चु गतौ ।गत्यर्थात्कौटिल्ये इति यङ् । वञ्चु संसु इति पूर्वस्य नीगागमः। लुकि न तन्निमित्तमिति यङो लुका लुप्तत्वात्तदाश्रितो नलोपो न । वनीवञ्चीति-ईडभावे वनीवक्ति, तसो ङित्त्वादिह स्यादेव नो लोप इति नलोपः । वनीवक्तः,देरित्यन्तोऽत् । वनीवञ्चति । वनीवच्यात् । वनीवञ्चीतु-वनीवङ्क्तु-वनीवक्तात्। हो झसादिति हेधिः। वनीवग्धि। अवनीवञ्चीत्-इडभावे संयोगान्तस्येति च लोपः। अवनीवन् । लुङि अवनीवञ्चीत्॥गम्लगती।ञमजपामिति पूर्वस्य नुकू जङ्गमीति-ईडभावे जङ्गन्ति,लोपस्त्वनुदात्ततनामिति मलोपःोजङ्गतः, गमांस्वरे इत्युपधालोपः।जङ्ग्मति।मो नो धातोरिति न । जगन्मि । जङ्गम्यात् । जङ्गमीतु-जङ्गंतु-जङ्गतात् । हौ लोपस्त्वनुदात्ततनामिति सलोपस्यासिद्धत्वादत इति न हेर्लुक् । जङ्गहि । अजङ्गमीत्।ईडभावे दिस्योरिति दिसिपोलोपः । मो नो धातोरिति नः । अजङ्गन् । अनुबन्धनिर्दिष्टत्त्वात् लित्पुषादेरिति न ङः । ह्यन्तेति न वृद्धिः । अजङ्गमीत् ॥ हन हिंसागत्यो । पूर्वाद्धन्तरिति हस्य घः । यद्यपि हन्तरिति रितपा निर्देशस्तथापि यङ्लुकि भवत्येवेति न्यासकारः । रितपा शपेति निषेधस्यानित्यत्वात् । अमजपामिति पूर्वस्य नुक् । जङ्घनीति-इडभावे जङ्घन्ति, तसि लोपस्त्वनुदात्ततनामिति नलोपः । जवन्तः, गमां स्वरे इत्युपधालोपः। द्वेरित्यन्तोऽत् । जङनति । जवन्यात् । जङ्घनीतु-जवन्तु-जवन्तात् । जोधि शाधीति सूत्रे अयङ्लुकीत वक्तव्यम् । तेन जहि । अजङ्गन्नीत् ।ईडभावे अजनन् । जननांचकार। हनो लुलिडोर्वध इति वधादेशः। द्वित्वविशिष्टस्य हनो वधादेशाद्वधादेशस्य पुर्नादत्वं न । वव्यात् । अवधीत्।आइपूर्वात्तु आङो यमहन इत्यात्मनेपदम्। आजंघते । इत्यादि