________________
(१५८)
सिद्धान्तचन्द्रिका ।
[आख्याते यलुगन्तप्र०]
प्रकृतिग्रहणे यङलुगन्तस्यापि ग्रहणमित्युक्तत्वात् ॥ चर गती लक्षणे च । लुपसदेति गर्दायां यङ् । यङो लुक् । ञमजपामिति नुक् । चरफलोरित्युत्वम् । उतस्तपरत्वान्न गुणः। वोनि हसे इति दीर्घस्तु स्यादेव । चञ्चूर्ति-ईट्पक्षे चञ्चुरीति । चञ्चूर्यात्। चञ्चरीतु-चञ्चूर्तु-चच्चूर्तात् । अचञ्चूः।पदान्तविषयत्वात् वोर्वि हसे इति दीर्घः। अचञ्चुरीत् ॥ खनु अवदारणे । ञमजपामिति नुक् । चङ्खनीति-चङ्खन्ति, जनसनेत्यात्वम् । चलातः । जनसनेत्यत्र हकारे चेति वाच्यम् । तेन ह वप्यात्वम् । चलाहि । अचङ्खनीत्-अचङ्ख । आशीलिङि जनसनेति वात्वम् । चलायात्-चङ्खन्यात् । लुङि अतो हसादेरिति वा वृद्धिः । अचंखानीत्-अचंखनीत् ॥ यु मिश्रणऽमिश्रणे च । 'आरौ'इति सूत्रेऽद्विरुक्तस्येत्यक्तत्वादुत औत्वं न । यडीति पूर्वस्य गुणः।योयोतिाईट्पक्षे योयवीतिानुधातोरित्युवायोयुवति। योयुयात्।योयवीतु-योयोतु-अयोयोत्-अयोयवीत्। आशिषि ये इति दीर्घः।योयूयात्।लुङि णित्पे इति णित्त्वाद् धातार्नामिन इति वृद्धिः । अयोयावीत्॥णुस्तुतौ।नोनवीति-नोनतिानोनुयात्।नोनवीतु-नो-तु-नोनुतात् ।अनोनवीत्-अनोनोत् । उसि गुण इति गुणे । अनोनवुः । लुङि अनावीत् ॥ओहाक त्यागे । ओहाङ गतौ । अनयोस्तुल्यानि रूपाणि । ङित्त्वप्रयुक्तस्यात्मनेपदस्य यङ्लुक्यप्रवृत्तेः । भृजां लुकीतीत्वस्य लुनिमित्ते द्वित्व एव विहितत्वाच्च आत इति पूर्वस्यात्वम् । ईट्पक्षे जाहेति-जाहाति, देस्तावितीत्वम्। जाहीतः । इह ङिति हसे भीहाको रिट्रतीत्वं न । अनुबन्धनिर्दिष्टत्वात् । टेरित्यन्तोऽत । द्वेस्तावित्यालोपः । जाहति । जाहेषि-जाहासि,जाहीथः,जाहीथ । जाहेमि-जाहामि,जाहीवः-जाहीमः। द्वेस्तावितीत्वम् । जाहीयात् । इह हाको यादादावालोप इत्यालोपो न उनुबन्धनिर्दिष्टत्वात् । जाहेतु-जाहातु-जाहीतात् । हो देस्तावितीत्वम्। जाहीहि । इह इवो हाविति ह्रस्वदीर्घविकल्पे रूपत्रयं न । जहातरिति रितपा निर्दिष्टत्वात् । अजाहेत्-ईडभावे अजाहात् ।
आशिषि जाहायात् । इह दादरे इत्येवं दादेरिति इत्वं च न । हागित्युभयत्रानुबन्धनिदिष्टत्वात्।।जाहेता । लुङि यमिरमिनमातामितीट्सको । अजाहासीत्, अजाहासिटाम,अजाहासिषुः॥डुदाज दाने । आत इति पूर्वस्यात्वम् । दादाति-ईट्पक्षे दादेति, दादेरित्यालोपः । दात्तः, द्वेरित्यन्तोऽत् । दादति । दादासि-दादंषि । दाद्यात् । दादेतु-दादातु-दात्तात् । हौ दां हावित्येत्वपूर्वलोपौ । देहि-दानात् । आदादात्अदादेत् । दादाञ्चकार । दादेर इत्येत्वम् । दादेयात् । दादेता । दादेष्यति । आदादेष्यत् । 'दादेः पे' इति सिलोपः।अदादात् ॥ धेट पाने । दाधाति--राधेति, दादेरित्यालोपः । खसे चपा झसानामिति तः । दात्तः, तथोर्ध इति धत्वं न दादेरित्यालोपस्य स्थानिवत्त्वन झसान्तत्वाभावात् । तत्र सूत्रे व्यवस्थितार्थकवानुवृत्त । दाधति । दाध्यात । दाधातु-दाधेतु-दात्तात् । दाधतु । हौ दां हावित्येत्वपूर्वलोपौ। धेहि । अदाधात्-अदाधेत् । दाधांचकार । दादेरे इत्येत्वम् । दाधेयात् । दाधेता । दाधे