________________
(१०४)
सिद्धान्तचन्द्रिका। [आख्याते स्वादयः ] अशकत् । राध साध संसिद्धौ । रानोति, राध्नुवन्ति ॥
(सुबोधिनी)-पूर्वाद्धिनोतेर्हस्य घो न त्वङि॥दित्वे सति पूर्वात्परस्य हिनो. तेर्हस्य घः स्यादङि तु न । अङि किम् । अजीहयत् । संयंगपूर्वकत्वादोर्वा हेरिति न हेर्लक् । आप्नुहि ॥
(तत्त्वदी०)-नत्वङीति||अङीतिकिम्।।अजीहयत्। ज्यन्तस्य धात्वन्तरत्वेन हिग्रहणादग्रहणेऽपि जिघाययिषतीत्यत्र ज्यधिकस्यापि कुत्वज्ञापनार्थमिदमिति बो व्यम् ।।
(राधो हिंसायामेत्वपूर्वलोपौ किति लिटि सेटि थपिच) रराध, रेधतुः। रेधिथ । अरात्सीत् ॥ निधृषा प्रागल्भ्ये । धृष्णोति । दधर्ष । अधर्षीत् ॥ दम्भु दम्भे । दभ्नोति ॥
(सुबोधिनी)--राधो हिंसायामेत्वपूर्वलोपौ कितिलिटि सेटिथपि च ॥ हिंसार्थकस्य राध एत्वपूर्वलोपौ स्तः नान्यार्थकस्य ॥ दम्। दम्भे । लोकवञ्चनाय विहितकर्मानुष्ठानं दम्भः॥ (श्रन्सिग्रन्थिदम्भिभ्यो लिटः कित्त्ववा)(दम्भेलिटयेत्वपूर्वलोपौं)। ददम्भ, देभतुः-ददम्भतुः । देभिथ ददम्भिथ । अदम्भीत् ॥ ऋधु वृद्धौ । आनर्द्ध । नुगशाम् । आनृधतुः। अद्धिता॥ क्षि हिंसायाम् । क्षिणोति, क्षिवंति । क्षेता ॥ इति पम् ॥ ___ (सुबोधिनी)-श्रन्थिग्रन्थिदम्भिभ्यो लिटः किवं वा॥एभ्यः परस्य लिटः कित्त्वं स्याद्वा । श्रन्थ ग्रन्थ संदर्भे । दम्भु दम्भ। स्वञ्ज पार्रवङ्गे । दम्भः किति लिट्येत्वपूर्वलोपौ । श्रन्थीति कित्संज्ञायां नो लोप इति नलोपस्तस्यासिद्धत्वादेत्वपूर्वलोपयोरप्राप्तौ सत्यामारम्भः ॥ इति सुबोधिन्यां पम् ॥
अशूङ् व्याप्तौ संघाते च । अश्नुते।नुगशाम्।आनशे। अशिषीष्टअक्षीष्ट । अशिता-अष्टा । आशिष्ट । आक्षाताम् ॥ ष्टिघ आस्कन्दने । स्तिघ्नुते, स्तिघ्तुवाते । तिष्टिषिध्वे । अस्तेघिष्ट ॥ इति स्वादयः॥
(सुबोधिनी)-नुगशामिति नुक । आनशे ॥ ष्टि व आस्कन्दने आस्कन्दनं संग्रामः । स्तिघ्नुते ॥ इत्यात् ॥ इति सुबोधिन्यां स्वादर ः॥ (तत्त्वदी०)-कृतायामिह टीकायां लोकेशकरशर्मणा । वाधनं दुष्टबुद्धीनामगमत्स्वादिसाधनम् ।।
। इति तत्त्वदीपिकायां स्वादयः ॥
-