________________
[ आख्याते स्वादयः ] टीकाद्वयोपेता।
( सुबोधिनी)-चिनोतेः सणादौ किर्वा ॥ चिनोतेः किरादेशः स्यालिटि सप्रत्यये च से परे। चिकीर्षति--चिचीषति । णादौ तु चिकाय-चिचाय । गुणोर्तिसंयोगाद्योरिति गुणः । तस्तरतुः । स्तर्यात् ॥
(ऋन्तात्संयोगादेः सिस्योरिडाति) स्तरिषीष्ट--स्तृषीष्ट । अस्तार्षीत् । अस्तरिष्ट-अस्तृत । लोपो हस्वाज्झसे ॥ कृञ् हिंसायाम् । कृणोति । कृणुते । चकर्थ । चकृवहे । अकार्षीत् । अकृत ॥ वृञ् वरणे । ववार । वव्रतुः॥ ___(सुबोधिनी) ऋदन्तात्संयोगादेः सिस्योरिड्वाति ॥ ऋदन्तात्संयोगादेर्धातोः परयोः सिस्योरिड्डा स्यादात्मनेपदे परे। स्तरिषीष्ट। उरिति न गुणः । स्तृषीष्ट।। ऋदन्तात्थपो नेट । चकर्थ । यादादौ इति रिङ् । क्रियात् । उरिति न गुणः। कृषीष्ट।।
(वृञस्थप इट) ववरिथ ॥ (सुबोधिनी)-वृञस्थप इट ॥ वृञः परस्य थप इट स्यात् । ववरिथ.॥ (
वृ ऋदन्तात्सिस्योरिड्वाति) वरिषष्टि-वृषीष्ट । वरितावरीता । वरिष्यति-वरीष्यति । अवारीत् , अवारिष्टाम् । अवरिष्ट-अवरीष्ट-अवृत ॥ धुञ् कम्पने । धुनोति । धुनुते । दुधाव, दुधुवतुः। धोष्यात । अधौषीत् । अधोष्ट । दीर्घान्तोऽप्ययम् । धूनोति । स्तुसुधूञामितीट् ॥ अधावीत् । स्वरतिसूतीति वेट । अधविष्ट-अधोष्ट ॥ इत्युभयपदिनः ॥ टुदु उपतापे । दुनोति । दुदाव, दुदुवतुः । अदौषीत् । हि गतौ वृद्धौ च । हिनोति ॥ (सुबोधिनी)-
वृनऋदन्तात्सिस्योरिडाति ॥ वृबृञ्भ्यामृदन्ताच्च परस्य सिप्रत्ययस्य सीष्टादेश्चड् वा स्यादात्मनेपदे परे । पे सेरिटो न दीर्घः । सीष्टादेरिति न दर्घिः। वरिषीष्ट । वृजिति वा दीर्घः। वरिता, वरीता स्वरतिसूतीति वेट । दुधविथ-दुधोथ । किति लिटि तु कित इतीणनिषधं बाधित्वा क्रादिनियमानित्यामिट् । नानप्योरित्युत् । दुधुविव । स्तुसुधूजामितीट् । अधावीत् ॥ इत्यात्पे॥ __ (तत्त्वदी०)-धुञ्॥दीघोन्तोऽप्ययमिति॥तथा च कविरहस्ये-"धूनोति चम्पकवनानि धुनोत्यशोकं चतं धुनाति धुवति स्फुटितातिमुक्तम् । वायुर्विधूनयति चम्पकपुष्परेणून्यत्कानने धवति चन्दनमञ्जरीश्च ॥” इति ॥ हि गतौ वृद्धौ च ॥
(पूर्वाद्धिनोतेर्हस्य घो न त्वङि) जिघाय, जिध्यतुः। अहैषीत्॥ आप्ल व्याप्तौ। आप्नोति, आप्नुवन्ति । आप्नुहि । आप, आपतुः । आप्ता। आपत् ॥ शक्ल शक्तो।शक्नोति । शशाक, शेकतुः। शक्ता।