________________
(१०२)
सिद्धान्तचन्द्रिका। [ आख्याते स्वादयः । (सुबोधिनी)-ईशुचिर क्लेदने । आदीदित इति नेट । शुक्तम्-क्लिन्नम् । इरित इति वा ङः॥ अशुचत् ॥ स्वरान्तादत्वतश्चेति वेट । नहिथ । नह इति धः । तथोरिति थस्य धः ननद । अत उपधाया इति वृद्धिः। अनात्सीत् ॥ इति दिवादिगणः ॥ ( तत्त्वदी० )ननद्धेति ॥ नहो ध इति धत्वे तथोर्द्ध इति धत्वमित्यर्थः ॥ कृतायामिह टीकायां लोकेशकरशर्मणा । अगात्समाप्ति संक्षिप्तं दिवादिगणसाधनम् ॥
इति तत्त्वदीपिकायां दिवादयः ॥ ४ ॥
अथ स्वादयः। षुञ् अभिषवे ॥ स्वादेर्नुः ॥ कर्तरि चतुषु ॥ नूपः॥ नुप्रत्ययस्य उप्प्रत्ययस्य च गुणो भवति पिति ॥ सुनोति । सुनुते । ओोर्वा लोपः । सुन्वः-सुनुवः । सुनोतु । ओर्वा हेः । सुनु । सुनवानि । सुनवै । असुनोत, असुनुताम् । सुषाव, सुषुवतुः । सोषीष्ट । असावीत् । स्तुसुधूञां पे सेरिट । असोष्ट ॥ षिञ् बन्धने । सिनोति । सिनुते । सिष्ये, सिष्याते, असैषीत् । असेष्ट ॥ शिञ् निशाने । शेता। अशेषीत, अशेष्ट ॥ डुमिन् प्रक्षेपे । मीनातिमिनोतीत्यात्वम् ममौ, मिम्यतुः, ममिथ-ममाथ । मिम्ये । अमासीत् । अमास्त॥ चिन् चयने । चिनोति ॥ __ (सुबोधिनी)-पुत्र अभिषवे ॥ स्नपनं स्नानं पीडनं सुरासंधानं चाभिषवः । स्नानेकर्मकः ॥ स्वादेर्नुः॥सुरादिर्यस्य स स्वादिस्तस्मान्नुप्रत्ययः स्यात् कर्बर्थेषु परेषु नूपः॥ उप्साहचर्यान्नुः प्रत्यय एव गृह्यते न धातुः। हुन्वोरिति वः । सुन्वन्ति । ओमोरित्युकारलोपो वा । सुन्वः, सुनुवः। ओर्वाहेरिति हेलक । सुनु । नुधातोरि त्युत् । सुषुवे । स्तुसुधूञामितीट । असावीत ॥ मीनातिमिनोतीत्यात्वम् । आतो णवित्यौकारः। ममौ । नुधातोरिति यः । मिम्यतुः । यमिरमीतीदसकौ । अमासीत् । चिञ् चयने । चयनं रचनाविशेषः॥ . (तत्त्वदी०)-घुञ् ॥ अभिषवः स्नपनं स्नानं पीडनं सुरासंधानं च । तत्र स्नानेऽकर्मकः । स्वादेर्नुः॥ सुः आदिर्यस्य स तस्मात् ॥ नूपः ॥ उपा साहचर्यान्नुः प्रत्यय एवं गृह्यत इत्याह । नुप्रत्ययेति ॥
(चिनोतेःसणादौ किर्वा) चिकाय--चिचाय । चिच्यतुः । अचैषीत् । अचेष्ट ॥ स्तृञ् आच्छादने । स्तृणोति, स्तृणुतः, स्तृण्वन्ति । तस्तार । गुणोतिसंयोगाद्याः । तस्तरतुः । ऋदन्तात्थपो नेट् । तस्तर्थ । तस्तरे । स्तर्यात् ॥