________________
[ आख्याते दिवादयः ] टीकाद्वयोपेता। .
(१०१) (पदेरिण्तनि) अपादि, अपत्साताम् ॥ खिद् दैन्ये । खेत्ता ॥ विद सत्तायाम् । विद्यते । वित्सीष्ट । वेत्ता। अवित्त ॥ बुध अवगमने। बुध्यते । भुत्सीष्ट । दीपजनेति इण वा । अबोधि-अबुद्ध ॥ युध संप्रहारे । युध्यते । युयुधे । युत्सीष्ट । अयुद्ध ॥
(सुबोधिनी)-पदेरिण्तनि ॥ पदेरिण प्रत्ययः स्यात्क-थै तनि परेराअपादि ।। दीपजनेतीण वा । लुगिति तनो लुक । अबोधि । झसादिति सिलोपः। अबुद्ध । आदिजबानामिति भः। अभुत्साताम् ॥
(अनो रुध कामे ) अनुरुध्यते । अनुरुरुधे । अनुरुत्सीष्ट। अनुरोद्धा । अन्वरुद्ध ॥ मन ज्ञाने । मन्यते । मेने । मेनिषे । मन्ता। अमंस्त ॥ युज समाधौ । युज्यते । योक्ता । अयुक्त ॥ सृज विसर्गे। सृज्यते । रारो झसे दृशाम् । स्रष्टा । अस्सृष्ट, अमृक्षाताम् ॥ लिश 'अल्पीभावे । लिश्यते । लिक्षीष्ट । लेष्टा । अलिक्षत, अलिक्षाताम् ॥ इत्यात् ॥
(सुबोधिनी)-अनो रुध कामे ॥ अनूपसर्गात् परो रुध धातुरिच्छायामस्ति । दिवादिपाठसामर्थ्यात् रुधादेरिति नमं बाधित्वा यः॥ युज समाधौ। समाधिश्चित्तवृत्तिनिरोधः। अकर्मकः ॥ सृज विसर्गे । अकर्मकः । 'संसृज्यते सरसिजैररुणांशुभिन्नैः' इति कालिदासः । सिस्योरिति न गुणः। सृक्षीष्ट । छशषेति षत्वं ष्टुत्वं झसादिति सिलोपः।असृष्ट॥ लिश अल्पीभाव । अनल्पस्याल्पत्वेन भवनमल्पीभावः । सिस्योरिति न गुणः । छशषेति षत्वम् । षढोरिति कत्वम् । लिक्षीष्ट । लुडि हसषान्तादिति सकू । आलिक्षत । इति सुबोधिन्यामात् ॥ ( तत्त्वदी०)-कृतायामिह टीकायां लोकेशकरशर्मणा अगादिवादिमध्यस्थमात्मनेपदसाधनम्।।
____ इति तत्त्वदीपिकायामात् ॥ मूष् तितिक्षायाम् । मृष्यति । मृष्यते । ममर्ष । ममृषे । अमर्षीत् । अमर्षिष्ट ॥ ईशुचिर् केदने । शुच्यति । शुच्यते । अशुचत्-अशोचीत् । अशोचिष्ट ॥ रच रागे। अपि रञ्जदंशेति नलोपः । रज्यति । रज्यते । अराङ्क्षीत् । अरङ्कत ॥ शप् आक्रोशे । शप्यति । शप्यते शेपतुः । शेपे । शप्ता । अशाप्सीत् । अशप्त ॥शक् मर्षणे । शेकिथ-: शशक्थ । पुषादित्वात् ङः अशकत् । अशक्त । सेट्कोऽयमित्येके। शकिता ॥ णह बन्धने । नाति । नह्यते । नेहिथ-ननद्ध । नत्सीष्ट । ८ नद्धा । अनात्सीत् । अनद्ध । इत्युभयपदम् ॥ इति दिवादयः॥ .