________________
(१००)
सिद्धान्तचन्द्रिका। [आख्याते दिवादयः ] मीङ् प्राणवियोगे । मीयते । मेता ॥ रीङ्ग स्रव ।रीयते । रिये । अरेष्ट ॥ लीङ श्लेषणे । लीयते । लिल्ये ॥
(सुबोधिनी)-मीनातिमिनोतिदीङी गुणवृद्धिविषये क्यपि चात्वम्॥ एषामात्वं स्यात् गुणवृद्धिविधायके प्रत्यये क्याप च । मी हिंसायाम्। डुमित्र प्रक्षेपणे । दीङ क्षये ॥ घञि उपादायः । तव्यप्रत्यये प्रमातव्यम । लुङि आदास्तेत्यत्रापिदाधास्थामितीत्वं न दीडोऽनुकरणे दारूपासंभवात् । डीङ वेहायसा गतौ । आकाशेन गमने। डीनः । डीनवान् । डीङः स्वादिषु पाठसामर्थ्य न क्तक्तवत्वोरिति इट् । इटि सति व्यवधानात् ल्वाद्योदितश्चेति नत्वं न स्यादित्यर्थः ॥ मीङ् प्राणवियोंगे। मीयते । प्राणैर्वियुज्यते इत्यर्थः ॥
(लीलीडोरात्वं वा गुणवृद्धिविषये क्यपि व ) लाता-लेता। अलास्त-अलेष्ट ॥ बीङ् वरणे । बीयते। विवि । वेष्यते । अवेष्ट ॥ स्वादय ओदितः ॥ पी पाने । पीयते । अपेष्ट ॥ माङ् माने । मायते। ममे । अमास्त, अमासाताम् ॥ईङ् गतौ। ईयते । अयांचवे ॥प्रीङ् प्रीती प्रीयते । पिप्रिये । अप्रेष्ट ॥ जनी प्रादुर्भावे ॥
(सुबोधिनी)-लीलीङोरात्वं वा गुणवृद्धिविषये क्यपि च ॥ अनयोरात्वं वा स्यात् गुणवृद्धिविधायके प्रत्यये यपि च परे । ली श्लेषणे । क्यादिः। ली श्लेषणे । दिवादिः ॥ क्यपि विलाय--विलीय ॥ ब्रीङ् वरण । वरणमङ्गीकारः ॥ त्री वरणे । क्यादिः ॥ स्वादयः ओदित इति ॥ तत्फलं तु क्तक्तवत्वोस्तस्य नत्वम् वाद्योदित इत्यनेन वक्ष्यते ॥ प्रीङ् प्रीतौ । सकर्मकः ॥
ज्ञाजनोर्जा॥ कर्तरि चतुर्षु ॥ जायते । गमां स्वरे जज्ञे । जनिता। दीपजनेति इण वा । जनिवध्योर्न वृद्धिः । अजनि-अजनिष्ट ॥ तरी गतित्वरणहिंसनयोः। सूर्यते-तुतूरिष॥ दीपी दीप्तौ। दीप्यते । अदीपिअदीपिष्ट । पूरी आप्यायने । अपूरि । अपूरिष्ट ॥ तप ऐश्वर्ये । तप्यते । तेपे । तप्ता । अतप्त ॥ वावृतु वरणे। वावृत्यते । वावर्ताचक्रे ॥ पद गतौ ॥ पेदे । पत्ता ॥
( सुबोधिनी)-ज्ञाजनोर्जा॥ अनयोर्जादेशः स्याच्च तुषु । ज्ञा अवबोधने । जनी प्रादुर्भावे । चतुर्यु किम् । ज्ञाता । दीपजनेतीण् वा । अजान ॥ वावृतु वरणे । 'ततो वावृत्यमाना सा रामशालां न्यविक्षत' इति भाट्टः॥
(तत्त्वदी०) अजनि ॥ दीपजनेति वा इण ॥