________________
[ आख्याते रुधादयः ] टीकाद्वयोपेता।
(१०५) अथ रुधादयः। रुधिर् आवरणे ॥ रुधादेनम् ॥ कर्तरि चतुषु ॥ रुणद्धि । नमसोऽस्य । रुन्द्धः, रुन्धन्ति । रुणसि । रुन्धे, रुधाम्ते । अरुधत्अरौत्सीत् । अरुद्ध ॥ भिदिर् विदारणे । अभिदत्-अभैत्सीत् । अभित्त ॥ छिदिर द्वैधीकरणे। अच्छिदत्-अच्छेत्सीत् । अच्छित्त ।। रिचिर विरेचने । रिणक्ति । अरिणक-अरिणगू । अरिचत्-अरक्षीत् । अरिक्त ॥ विचिर पृथग्भावे । विडूक्ते । अविचत्-अवैक्षीत् । अविक्त ॥ क्षुदिर संप्रेषणे । अक्षुदत्-अक्षौत्सीत् । अक्षुत्त ॥ युजिर योगे । अयुजत्-अयोक्षीत् । अयुक्त ॥ उछदिर दीप्तिदेवनयोः। कृणत्ति । छन्ते । नृततृद इति वेट । छुत्सीष्ट छर्दिषीष्ट । अच्छृदत्अच्छर्दीत् । अच्छर्दिष्ट ॥ उतृदिर हिंसानादरयोः । अतृदत्-अतर्दीत् । अतर्दिष्ट ॥ इत्युभयपदक्रिया ॥
सुबोधिनी)-रुधिर आवरणे ॥ रुधादेर्नम् ॥ रुधू आदिर्यस्य स रुधादिस्तस्माद्धादेर्नम् प्रत्ययः स्यात् कर्बर्थषु चतुर्षु ॥ मित्त्वादन्त्यात्स्वरात्परः। नित्यत्वाद्गुणं बाधते । तथोरिति धत्वम् । णत्वम् । रुणद्धि। नमसोऽस्य इत्यल्लोपः।रुन्द्रः। दिस्योरिति दिपसिपोर्लोपः। 'वावसाने' इति धस्य दकारतकारौ । सिपि 'दः' इति दस्य वा सः । अरुणत्-अरुणः । नृततृदोत वेट । चच्छृदिषे चच्छृत्से॥इति सुबोधिन्यामात्पे ॥ . . (तत्त्वदी०)-रुधिर ॥रुधादेर्नम् ॥ रुधू आदिर्यस्य स तथा तस्मात् । न च रुदादेरिति भविष्यति अन्तर्वर्तिविभक्त्या पदत्वादिति वाच्यम् । असंदेहार्थमिदम् । अन्यथा रुध् आदि रुद् आदिरिति वा संदेहः स्यात्। यद्यपि व्याख्यानतो विशेषप्रतिपत्तिरिति न्यायाद्रुधादिरेव गृह्यते तथापि कचिदान्तरं पदकार्य नेति ज्ञापनार्थमिदम् । नमःप्रत्ययत्वेऽपि मित्त्वसामर्थ्यादन्त्यस्वरस्य परत्वम् अन्यथा मित्त्वं व्यर्थं स्यात्।नच नम इति विशेषणार्थ तदिति वाच्यम् । अनुबन्धान्तरस्यैव सुवचत्वाता अथ नमि मध्येऽपि तिबादिपरत्वस्यावाधनादपा भाव्यमिति वाच्यम् । न, दधि ब्राह्मणेभ्यो दीयता तक्रं कौण्डिन्यायेति तक्रकौण्डिन्यन्यायेन तक्रदानेन दधिदानस्येव नमापो बाधनात् । नमानित्यत्वादूगुणो बाध्यते । उच्छृदिर् उः क्त्वायामिडिकल्पार्थः । कृत्त्वा-ॐदित्वा ॥ इत्यात्पे ॥ . शिष्ल विशेषणे। शिनष्टि, शिंष्टः, शिंषन्ति । शिढि । शेष्टा । शेक्ष्यति । अशिषत् ॥ पिष्ल संचूर्णने । पिनष्टि । पेक्ष्यति । अपिषत् ॥ भञ्जो आमर्दने । भनक्ति । बभञ्जिथ-बभङ्क्थ । भत्ता । अभाङ्क्षीत् ॥ भुज पालनाभ्यवहारयोः । भुनक्ति, भुङ्क्तः । अभुनक्-अभुनगू। अभीक्षीत् ॥ तृह हिसि हिंसायाम् ॥