________________
( १०६ )
सिद्धान्तचन्द्रिका |
[' आख्याते रुधादयः ]
( सुबोधिनी ) - झसादिति हो: । झबे इति षस्य डत्वम् । टुत्वम् । अनुस्वारपरसवर्णौ । शिण्डार्ट । हसात्परस्य झसस्योत डलोपे शिढि । लिपादेरिति ङः । अशि षत् ॥ भञ्ज आमर्दने । ओदित्करणं त्वाद्येोदिति इति नत्वार्थम् । भग्नः॥ भुज पाल नाभ्यवहारयोः । भुजोऽपालने इत्यात्मनेपदं वक्ष्यते ॥
( गृहो नमि कृते इमागमः पिति इसे ) तृर्णोः । अतृणेट् । अतह | इदितो नुम् ॥ नमः ॥ नम्प्रत्ययात् परस्य नस्य लोपः ॥ हिन स्ति, हिंस्तः, हिंसन्ति । धे सलोपः । हिन्धिं । अहिनः । जिहिंस | अहिंसात्॥उदी केदने । उनत्ति, उन्तः, उदन्ति, औनत् । औन्दन् । उन्दांचकार । औन्दीत् ॥ अजू व्यक्तिम्रक्षणकान्तिगतिषु । अनक्ति । नुशाम् । ऊदितो वा । आनञ्जिथ-आनथ | अञ्जिता - अक्ता ॥
(सुबोधिनी ) - तृहों नमि कृते इमागमः पिति इसे ॥ तृहेः पूर्वं नम् । ततः इम स्वात् पति से परे । नमः प्रकरणात्प्रत्ययस्य ग्रहणम् । उन्ही क्लेदने । क्लेदनमार्द्रीभावः । नम इति नलोपः । उनत्ति । उन्द्यात् उनत्तु । औनन् । उन्दांचकार । उद्यात् । उन्दिष्यति । औन्दिष्यत् । औन्दीत् ॥ अज्जू व्यक्तिम् क्षणकान्तिगतिषु । व्यक्तिर्विवेचनम् । म्रक्षणं स्निग्धता । नुगशामिति नुंकू आनञ्ज ॥
दात
(तत्त्वदी ० ) - तृही नमि कृते इति ॥ यद्येवं न स्यात्तर्हि येन नाप्राप्त यायेन मा नम् बाध्यते । अबाधने वा पूर्वमिमेव स्यादिति शंकानिवृत्तये नमि कृते इति । नमः प्रकरणतत्प्रत्ययस्य ग्रहणम् ॥
( अः सेर्नित्यमिट् ) आश्रीत् । तञ्च संकोचने । तनक्ति । अतश्चीत् । अताङ्क्षीत् । ओविजी भयचलनयोः । विनक्ति ॥
(सुबोधिनी) -अञ्जेः सेर्नित्यमिट् ॥ अञ्जः परस्य सप्रत्ययस्य इडागम ऊदित्वाद्विकल्पे प्राप्ते इदम् ॥
( विजेरिडादिप्रत्ययो ङित् ) विविजिथ । विधिता । अविजीत् ।। 'वृजी वर्जने । वृणक्ति । अवर्जीत् ॥ पृची संपर्के । पृणक्ति । अपर्चीत् ॥ इति पम् ॥
(सुबोधिनी) - विजेरिडादिप्रत्ययो ङित् ॥ विजेः परस् । इट्सहितस्य प्रत्ययस्य ङित्त्वं स्यात् ॥ इति सुबोधिन्यां पम् ॥
ञिइन्धी दीप्तौ । इन्द्रे । इन्धति । ऐन्द्व । इन्धांचक्रे । ऐन्धिष्ट । खिद दैन्ये । खिन्ते । खित्सीष्ट । अखित्त ॥ विद विचारणे । विन्ते । वित्सीष्ट । अवित्त ॥ इति रुधादयः ॥