________________
[ आख्याते तनादयः ] टीकाइयोपेता।
(१०७) (सुबोधिनी)-जिइन्धी दीप्तौ । तथोर्द्ध इति धत्वम् ।झबे जबा इति दत्वम् । इन्धेनेमो नकारस्यानुस्वारपरसवर्णौ । नो लोप इति नलोपस्तु न भवत्यल्लोपस्यासिद्धत्वात् स्थानिवत्वाद्वा ॥ इत्यात् ॥ इति सुबोधिन्यां रुधादयः॥ __ ( तत्त्वदी० )-त्रिइन्धीति ॥ जीतां तगित्येतदर्थो भिः । इद्ध इत्यत्रेग्निषेधार्थः । इन्धी इति नम इति नलोपः । नमसोस्येति सलोपः। कृतायामिह टीकायां लोकेशकरशर्मणा । मता भाष्यकृतो भव्या रुधादिप्रक्रिया गता ॥
इति तत्त्वदीपिकायां रुधादयः ॥ ६ ॥
... अथ तनादयः । तनु विस्तारे ॥ तनादेरुप ॥ करि चतुषु।।नूपः। तनोति, तनुतः, तन्वन्ति । ओमौर्वा लोपः। तनुवः-तन्वः । तनुते । ततान, तेनतुः। तेने । अतानीत्-अतनीत् ॥
(सुबोधिनी)-तनु विस्तारे ॥ तनादेरुपातन् आदिर्यस्य स तनादिस्तस्मादुप्कत्रर्थेषु चतुर्यु अपोऽपवादः॥ तनोति । तनुते। तनुयात् । तन्वीत । तनोतु । तनुताम् । अतनोत् । अतनुत। ततान । तेने।तन्यात्। तनिषीष्ट ।तनिता । तनिष्यति ।तनिष्यते । अतनिष्यत् । अतनिष्यत । अतो हसादेलेघोरिति वा वृद्धिः। अतनीत्-अतानीत् ॥
(तत्त्वदी०) तनु ॥ उकारः क्त्वायामिड्किल्पार्थः॥ तनादेरुप् । तन् आदिर्यस्य स. तनादिस्तस्मात् । नलोपाभावस्वसंदेहार्थः। यदि व्याख्यानत इति न्यायादसंदेहस्तदा कचिन्नलोपो नेति ज्ञापनार्थः । तेन सन् आदिर्येषां ते सनादय इत्यादि सिद्धम् । उपः पित्वं कुरुत इत्यादौ गुणार्थम् । यदि ङित्यदुरिति सामर्थ्याद्गुणः । अन्यथाऽकारस्यासंभव इति विभाव्यते तदा घर्णातीत्यत्र गुणार्थमिति बोध्यम् ॥
(तनादेस्तथासोा सेलक) लोपस्त्वनुदानतनाम्॥अतत-अतनिष्ट । अतथा:-अतनिष्ठाः॥ षणु दाने । सनोति। सनुते । सेनतुः। सेने । जनसनखनामात्वमिति आत्वम् । सायात्-सन्यात् । असातअसनिष्ट । असाथा:-असनिष्ठाः॥ क्षणु क्षिणु हिंसायाम् । क्षणोति। यन्तक्षणेति न वृद्धिः । अक्षणीत् । अक्षत-अक्षणिष्ट । अक्षथा:अक्षणिष्ठाः ॥ __ (सुबोधिनी)-तनादेस्तथासोर्वा सेर्लुक् ॥ तनादेः परस्य से ग् वा भवति तानि थासि च परे॥अतत-अतनिष्ट॥षणु दाने ।नान्तोऽयम् । णकारस्तु लाक्षणिकः । तेन यङ्लुकि संसन्ति, संसन्तः । इत्यादावनुस्वारपरसवर्णौ स्तः । जनसनेत्यात्वम् । सायात्-सन्यात् । असात-असनिष्ट । असाथाः-असनिष्टाः ॥ क्षणु क्षिणु हिंसायाम् ।