________________
(१०८)
सिद्धान्तचन्द्रिका । [ आख्याते तनादयः ] इमावपिलाक्षणिकौ णकारौ । तेन यङ्लुकि चंक्षन्ति । इत्यत्रानुस्वारपरसवर्णौ। ह्यन्तेति न वृद्धिः। अक्षणीत् । तनादेस्तथासोरिति वा सेलृक् । लोपस्त्वनुदात्ततनामिति न लोपः । अक्षत-अक्षणिष्ट॥
( तत्त्वदी० )-क्षणु । द्वावपि दन्त्यान्तौ । णत्वं तु सूत्रबलात् । अन्यथा यङ्लुकि चंक्षन्तीत्यत्रानुस्वारो न स्यात् ॥
(तनादेरुपधाया गुणो वोपि) क्षिणोति-क्षणोति । अक्षेणीत्॥ अक्षित । अक्षेणिष्ट । अक्षिथा:-अक्षेणिष्ठाः ॥ ऋणु गतौ । ऋणोतिअर्णोति । ऋणुतः। आनर्ण । आनृणे । आर्णीत । आर्त-आणिष्ट । आर्थाः-आणिष्ठाः॥ तृणु अदने । तृणोति-तर्णोति । तृणुते । तणुते । अतीत् । अतृत-अतर्णिष्ट । अतृथाः-अर्णिष्ठाः॥ घृणु दीप्तौ। घृणोति ।घर्णोति । जघर्ण । अघीत् । अघृत- अघर्णिष्ट । अथा:अघर्णिष्ठाः॥ डुकृञ् करणे । करोति । ङित्यदुः । कुरुतः॥
(सुबोधिनी) तनादेरुपधाया गुणो वोपि॥ तनुपणुक्षणुधातूनां गुणासंभवात् क्षेण्वादिष्वस्य प्रवृत्तिर्बोध्या।अतद्गुणसंविज्ञानो बहुव्रीहिः । उवमिति वाकुर्वन्ति ।।
( कुरुछुरोन दीर्घः) कुर्वन्ति ॥ (सुबोधिनी) कुरुछुरोर्न दीर्घः ॥ कृत्रः कुरुरूपम्य छुरछेदने इत्यस्य च दी? न भवति । कुर शब्दे इत्यस्य तु न निषेधः ॥
(कृमो नित्यं वमोरुलोपः) कुर्वः, कुर्मः। (सुबोधिनी)-कृञो नित्यं वमोरुलोपः॥ कृञः परस्य उपप्रत्ययस्य लोपः स्यात वमयोः परयोः ॥ (तत्त्वदी०) कृमो नित्यमिति । कृत्रो ये इत्यत्र वेत्यनु गर्व्यवस्थया बोध्यम् ॥
कृञो ये ॥ कृत्र उप्प्रत्ययस्य लोपो यि ॥ कुर्यात् चकर्थ क्रादेनेट । क्रियात् । कृषीष्ट । अकार्षीत् । अकृत । अकथाः॥
(सुबोधिनी) कृञो ये ॥ लोप इत्यनुवृत्तम् । आशिषि यदादौ इति रिङ् । क्रियात्।उरित न गुणःकृषीष्टातनादेरिति सेढुंगभावेलोपोह्रस्वादिति सिलोपःअकृत।
(संपर्युपेभ्यः करोतेभूषणे सुट) संस्करोनि । अद्वित्वव्यवधानेऽपि कात् पूर्वः सुट् । समस्करोत् । संचस्कार।
(सुबोधिनी)-संपर्युपेभ्यः करोतेर्भूषणे सुट्॥संपर्युपपूर्वस्य करोतेः सुट्स्यात्। भूषणे संघे चार्थे संस्करोति । अलंकरोतीत्यर्थः। संस्कुर्वन्ति संघीभवन्तीत्यर्थः॥ अङ्द्वित्वव्यवधानेऽपि कात् पूर्वःसुट । संपर्युपेभ्यः परस्य कृञोऽड्व्यवधाने द्वित्वव्यवधाने च कात्पूर्वः सुट् भवति ।