________________
[ आख्याते तुदादयः ]
टीकाद्वयोपेता ।
( १०९ )
( तत्त्वदी ० ) - संपर्युपेभ्य इति ॥ वृत्तिकारमतेनायं पाठः । भाष्यवार्त्तिककारादिमते तु संपरिभ्यामित्येव ॥
(ससुटः कृञ लिट इट् ) संचस्करिथ । संचस्करिव । संस्क्रियात् । संस्कृषीष्ट । एवं परिष्कुरुते । उपस्कुरुते । परिष्करिष्यते । पर्यस्कार्षीत् पर्यष्कार्षीत् ॥ इत्यात् ॥
(सुबोधिनी) - सटः कृञो लिट इट् । सुद्रसहितात् कृञो लिट इट् भवति । इत्यात्पे । वतु याचने । वनुते । ववने । परस्मैपद्ययमित्येके । वनोति । शस दद इति । ववान | ववनिथ । अवानीत् - अवनीत् ॥ मनु अवबोधने । मनुते । मेने । मनिषीष्ट । अमत-अमनिष्ट ॥
इति तनादयः ॥
(तत्त्वदी ० ) - कृतायामिह टीकायां लोकेशकर शर्मणा । मता भाष्यकृतो भव्या तनादिप्रक्रिया गता ।।। इति तच्चदीपिकायां तनादयः ॥ ७ ॥
"
अथ तुदादयः ।
"तुद व्यथने । तुदादेरः ॥ कर्तरि चतुर्षु ॥ तुदति । तुदते । तुत्सीष्टा अतौत्सीत् । अतुत्त ॥ शुद प्रेरणे । नुदति । नुत्सीष्ट । अनौत्सीत् । अनुत्त ॥ दिश अतिसर्जने । दिशति दिक्षीष्ट । अदिक्षत् ॥ भ्रस्ज पाके । ग्रहां ङिति च । झबे जबाः । भृज्जते ॥
1
(सुबोधिनी) - तु व्यथने । तुदादरः। तुद आदिर्यस्य स तुदादिः तस्मादप्रत्ययः स्यात् कर्त्रर्थेषु चतुर्षु ॥ अपोऽपवादः ॥ तुदति । तुदते । तुदेत् । तुदेत । तुदतु । तुदताम् । अतुदत् । अतुदत, अतुदेताम्, अतुदन्त । तुद्यात् । तुत्सीष्ट । सिस्योरिति न गुणः । तोत्ता । तोत्स्यति तोत्स्यते । अतोत्स्यत् । अतोत्स्यत । अतौत्सीत् । झसादिति सिलोपः | अतुत्त ॥ दिश अतिसर्जने । अतिसर्जनं दानम् । हशषान्तात् । सगिति सक् । छशषेति षत्वम् । षढोरिति कत्वं च । अदक्षत् | आदक्षत || भ्रस्ज पाके । भर्जनरूपः पाकोss धात्वर्थो न त्वोदनादेः पाकस्तत्र प्रयोगाभावात् । ग्रहामिति संप्रसारणम् । सस्य श्चुत्वेन शः । शस्य झबे जबा इति जः । भृज्जति । भृज्जते । भृज्जेत् । भृज्जेत । भृज्जतु । भृज्जताम् । अभृज्जत् । अभृजत ॥
(तत्त्वदी० ) - तुदादेर इति ॥ तुद आदिर्यस्य स तथा तस्मात् । अप्रत्ययस्यापित्वादपित्तादिर्जेिदिति ङित्त्वं तेन गुणो न । भ्रस्ज इत्ययं पाठः । भ्रस्जो इति पाठे तु भृष्टः भृष्टवानि त्यत्र त्वाद्योदित इति नत्वं स्यात् ॥