________________
( ६४ )
सिद्धान्तचन्द्रिका |
[ आख्याते भ्वादयः ]
(तत्त्वदी ० ) - गुब्भ्य इति ॥ बहुवचनमाद्यर्थमतो गणयति ॥ गुवतिजू इत्यादि ॥ स्वार्थ इति ॥ अन्यार्थानुक्तेरिति भावः ॥ चिकित्सतीति ॥ आगमजस्या नेत्यत्वादिडभावस्ततो 'नानिटि से' इति गुणाभावः । भ्रभु इति ॥ उदित्वं क्त्वाप्रत्यये भ्रमित्वान्त्वतीड्डिकल्पार्थम् ॥
फणराजभ्राजभ्राशृभ्लाशृस्वन् स्यमुजुष्अर त्रसामेत्वपूर्वलोपौ वा ॥ भ्रमतुः - बभ्रमतुः । अभ्रमीत् । टुवम् उरिणे । ( वम एत्वपूर्वलोपो वेति केचित् ) वेमतुः - ववमहः । अवमीत् ॥ फण गतौ । फेणतुः - पफणतुः । अफाणीत्-अफणीत् ॥ स्वन स्यमु शब्दे । स्वेनतुः-सस्वनतुः । अस्वानीत्-अस्वनीत् ॥ स्येमतुः - सस्यमतुः । अस्यमीत् ॥ शसु हिंसायाम् । शशसतुः । शशमिथ ॥ तुहिर् दुहिर उहिर अर्दने । अतुहत्-अतोहीत् । दोहिता । 3 दुहत् अदोहीत् ॥ उवोह, ऊहतुः ॥ वस निवासे ।
( सुबोधिनी) - फाभ्राजभ्राशुभ्लाशृस्वनस्य मुषूभ्रमुत्रसमित्वपूर्व लोप वा ॥ फणू गतौ । राजू दीप्तौ । टुभ्रानृ टुभ्राट टुभ्लाट दीप्तौ । स्वन स्यमु शब्दे । इर् वयाहानौ । भ्रमु चलने । त्रसी उद्वेगे । एषामेत्व पूर्व लोपो वा किति लिटि सेटि थाप च । टुवम उारणे । केचिदमुमुदितं पठन्ति । वामनस्तु नोदितम् । गृधातोर्युद्रप्रत्यये गुणे कृते तूहिरण इति स्यात्ततो निपातनादिरिति सुधाकरः । उद्भिरणं वमनम् । वादित्वादेव पूर्वलोपौ न । ववम : । 'वेमुश्च केचिद्रुधिरम्' इत्यादिप्रयोगा भाष्यविरुद्धाः ॥
( तत्त्वदी ० ) - अभ्रमीदिति यन्तेत्यादिना न वृद्धिः । टुवम उद्गिरण इति ॥ वेमथुरित्यथुप्रत्ययार्थं टित्त्वम् । इहैव निपातनादुद्गिरणे इत्यत्र गुणा-विः ॥ शशसतुरिति ॥ न शशददेति निषेधः ॥
बाद पूर्वस्य ॥ यजादीनां ग्रहादीनां च पूर्वस्य संप्रसारणं बाद ||
( सुबोधिनी ) - बादौ पूर्वस्य ॥ यजामिति ग्रहामि ते चानुवृत्तेः । यद्यपि ग्रहवृश्चिपृच्छतिभृज्जतीनां पूर्वस्य संप्रसारणे कृते विशेषो नास्ति तथापि पर्जन्यवलक्षणं प्रवर्त्तते । जग्राह । वश्च । पप्रच्छ । बभ्रज्ज ॥ लिटि कि । विवक्षति । पिपृक्षति | (यवराणामिदुदृतः ) सस्वरस्य संप्रसारणम् । दीर्घस्य दीर्घो
ह्रस्वस्य ह्रस्वः । उवास ॥
( सुबोधिनी )--यवराणामिदुदृतः ॥ यकारवकाररकाराणां स्थाने इकारोकार - ऋकारा भवन्ति । ते संप्रसारणसंज्ञकाः स्युः ॥