________________
[ आख्याते भ्वादयः ] टीकाद्वयोपेता।
(५५) यजा यवराणां य्वृतः संप्रसारणं किति ॥ यजादीनां संप्रसारणं किति “यजिर्वपिर्वहिव वेव्येनौ ह्वयतिः स्वपिः । वद्वसी श्वयतिर्वक्तिरेकादश यजा इयः॥" ' (सुबोधिनी)-यजां यवाणां स्वृतः संप्रसारणं किति ॥ यजादिधातूनां यकारवकाररकाराणामिकारोक रऋकाराःसंप्रसारणे भवन्ति किति प्रत्यये परे॥"यजिवैपिहिश्चैव वेजव्येह्वेस्वप्व इस्तथा॥वसिश्च श्वयतिर्वक्तिरेकादश यजादयः॥१॥" यज देवपूजादौ । टुवप् बीजतन्तुसंताने। वह प्रापणे। वे तन्तुसन्ताने । व्यञ् संवरणे। हृञ् स्पर्द्धायाम्। त्रिष्वप शये। वद व्यक्तायां वाचि । वस निवासे । टुओश्वि इर गतिवृद्धयोः। वच परिभाषणे एते एकादश धातवो यजादयो ज्ञेयाः॥
घसादेः षः॥घसिसासिवसीनां सस्य षो निमित्ते सति ॥ ऊषतुः । उवसिथ-उवा थ । उस्यात् । वस्ता ॥ (सुबोधिनी)-घसादेः रासस्याकृतत्वादप्राप्ते विधिरयम्।घस्ल अदने । शासु अनुशिष्टौ । वस निवासे । क्विात्परस्यैषां सस्य षः । स्वरान्तादत्वत इति वेट् । उपसिथ-उवस्थ ॥ (तत्त्वदी०)निमित्त इति । किलात्परस्येत्यर्थः ॥ सस्तोऽनपि ॥ सस्य तोऽनपि से ॥ वत्स्यति । अवात्सीत्, अवात्ताम् ॥ वद व्यक्तायां वाचि । वदति । उवदिथ । उद्याथ । वदितज्योः सौ नित्यं वृणिः । अवादीत् । टुओश्विइर् गतिवृद्धयोः । ( सुबोधिनी)-सस्तोऽनपे । धातोः सस्य तोऽनपि सकारे परे ॥ से किम् । वस्ता ॥ सस्योत किम् । रप्स्यते ॥ धातोः किम् । वेधः॥ से लुङि 'णित्पे' इति सेणित्वादत उपधाया इति वृद्धिः। वात्सीत्। सस्य ते कृते झसादिति सिलोपः। अवात्ताम्। वदिव्रज्योरिति वृद्धिः। अवादीन् ॥ टुओश्विइ गतिवृद्धयोः ।टु इतीत्संज्ञकः । द्वितो थुरित्येतदर्थः। श्वयथुः।ओरिति ल्वाद्योदितश्चैतदर्थः। इरितीरितो वेति ङप्रत्ययार्थः॥
(श्वयतेर्णादौ यङि च संप्रसारणं वा) ततो द्वित्वम् । शुशाव, शुशुवतुः। शुशविथ । शिश्वाय, शिश्वियतुः । शिश्वयिथ । शूयात् । श्वयिता । अवर्यात् ॥ (सुबोधिनी)-श्वयतेदो याङिच संप्रसारणं वा । ततो द्वित्वम् । श्वयते: पूर्व संप्रसारणं स्याद्वा पश्चाद् हित्वं लिटि । नुधातोरित्युत् । शुशुवतुः । आशिषि यजामिति संप्रसारणे कृते ये इति दीर्घः । शूयात् । यन्तेतिन वृद्धिः अश्वयीत् । पक्षे इरितो वोत ङप्रत्यये ॥