________________
[ उत्तरकृदन्तप्रक्रिया ] टीकाद्वयोपेता।
(३४७) (उपदंशस्तृतीयायाम् )इतः प्रभृति पूर्वकाल इति संबध्यते ॥ मूलकोपदंशं भुङ्क्ते । मलकेनोपदंशम् । दश्यमानस्य मूलकस्य भुजिं प्रति करणत्वात्तृतीया । यद्यप्युपदंशिना सह न शाब्दः संबन्धस्तथा प्यार्थोऽस्त्येव ॥
( सुबोधिनी) उपदंश तृतीयायाम्॥तृतीयान्तोपपदादुपदंशतर्णम् स्यात् ॥ मूलकोपदंशम् । वाक्यमपि । मूलकेनापदंशम् ॥ ___ (तत्त्वदी० )-उपदंशस्तृतीयायामिति ॥ मूलकोपदंशं भुङ्क्त । मूलकेनोपदश्य भुङ्क्ते इत्यर्थः । अत्र न मूलकस्य भुज्यपेक्षया करणत्वं शाब्दम् । मूलकेन भुङ्क्ते । किं कृत्वा । उपदश्य । किम् । अर्थान्मूलकमित्येतदेव का गम्यते ॥
(हिंसार्थानां चानुप्रयोगधातुना समानकर्मकाणां तृतीयान्ते उपपदे) दण्डोपघातं ाः कालयति दण्डेनोपघातम् । दण्डताडं दण्डेन ताडं वा । नमानकर्मकाणां किम् । दण्डेन चौरमाहत्य गाः कालयति ॥
(सुबोधिनी)-हिंसार्थानां चानुप्रयोगधातुना समानकर्मकाणां तृतीयान्ते उपपदे ॥ तृतीयान्नोपपदादनुप्रयोगधातुना सह समानकर्मकाद्धिंसाण्णम स्यात् ॥ हन्तेर्णमि कृते हनो पदिति घत् । वृद्धिः। दण्डोपघातं गाः कालयति । कल विक्षेप चुरादिः । प्रेरयतीत्यः ॥ दण्डताडम् । तड आघाते चुरादिः ।
(सप्तम्यां तृतीयायां चोपपदे उपपीडधकर्षः) पाश्र्थोपपीडं शेत । पाश्चाभ्यामुपपीई पार्श्वयोरुपपीडं वा । व्रजोपरोधं गाःस्थापयति बजे व्रजेनोपरोम् । पाण्युपकर्ष धानाः संगृह्णाति पाणावुपकर्षम् पाणिनोपकर्षम् ॥
(सुवाधिनी)-सप्तम्यां तृतीयायां चोपपदे उपपीडरुधकर्षः।सप्तमीतृतीयान्तापपदेभ्य उपपूर्वेभ्यः पीडादिभ्यो णम् स्यात् ॥ इह सूत्रे पीडादीनां समाहारद्वन्द्व कृत्वा उपपूर्वः पीडरुधकर्ष इत्युत्तरपदलोपी समासः कर्तव्यः । सत्रे पुंस्त्वं सौत्रं ज्ञयम् । पञ्चम्यर्थे प्रथमा च ज्ञया। पीड पीडायाम् । रुधिर आवरणे । कृष विलेखने । अयं भौवादिक एव गृह्यते । गुणसहितस्य कृषेरपा निर्देशात् । तत्फलं तुदादे[दासः । यद्यपि विलेखन एव तौदादिकोशप पठ्यते तथापि क्षेत्रविषयकविलेखने एव तौदादिकः प्रयुज्यते । एवं च तौदादिकात्कर्षेः क्यप् प्रत्यय एव भवति । क्षेत्रे उपकृष्य हलेनोपकृष्यति ।