________________
[ आख्याते तुदादयः ] टीकाद्वयोपेता।
(११३) य्वोर्वि हसे इत्यनेन दीर्घ प्राप्ते कुरुछुरोरिति निषेधः । छुर्यात्॥त्रुटछेदे। भ्राशभ्लाशिति वा यः । त्रुट्यति-त्रुटति ॥ कडेर्धातुपाठे भ्वादौ पठितस्य पुनरत्र पाठः शतप्रत्यये वादीपोरिति नुविकल्पार्थः । पूर्वपाठस्तु कडन्तीति नित्यनुमर्थः ॥ कृड घनत्वे । घनत्वं सान्द्रता ॥
(निनिविभ्यः स्फुरतिस्फुलत्योः सस्य षो वा) निष्ष्फुरतिनिस्स्फुरात-नि:स्फुरति । निष्फुरति-निस्फुरति । निष्ष्फुलति । निस्स्फुलात-निःस्फुलति । निष्फुलति-निस्फुलति॥णू स्तवने । अनुवीत् ।। धू विधूनने । अधुवीत् ॥ गु पुरीषोत्सर्गे । जुगुविथ-जुगुथ ।। गूयात् । गुता ॥ध्रु गतिस्थैर्ययोः ।ध्रुता । अध्रषीत् ॥ इति कुटादयः॥ कृती छेदने । मुचादेर्मुम्। कृन्तति । नृततृदवृतछदकृयोऽसे: सादेरिडा। कर्तिष्यति-कय॑ति । अकीत् ॥ गृ निगरणे ॥ ' ( सुबोधिनी)-निनिविभ्यः स्फुरतिस्फुलत्योःसस्यषो वा ॥ एभ्यः परस्यानयोः सस्य वा षत्वं भवति ॥ णू दीर्घान्तः। परिणूतगुणोदयः' इत्यत्र कित इतीनिषेधः । कुटादेरिति ङित्त्वान्न वृद्धिः । नुधातोरित्युत् । अनुवीत् । लोपो ह्रस्वादिति सिलोपः । अगुताम् । वृत्ताः कुटादयः ॥ कृती॥ मुचादेरिति मुम् । कृन्तति। नृततदेति वेटू । कतिष्यति-कति ॥
(गिरतेः स्वरे रस्य लो वा ) ऋत इर् । गिरति-गिलति। गरिता-गरीता-गलिता-गलीता । अगारीत्-अगालीत्॥ स्पृश स्पर्शने । स्प्रष्टा-स्पष्टों।अस्पाक्षीत्-अस्पाक्षीत्-अस्पृक्षत् ॥प्रच्छ जीप्सायाम्। ग्रहां डिति च। पृच्छति । पप्रच्छिथ-पप्रष्ठ । अप्राक्षीत् ॥ मृज वि. सर्गे। सृजति । स्मृजिहशोस्थपो वेट् । ससजिथ-सनष्ठ । स्रष्टा । अस्राक्षीत् ॥ टुमस्जो शुद्धौ । मज्जात । मस्जिनशोझसे नुम् । ममज्जिथ- ममथ । मङ्क्ता । अमाक्षीत् ॥ विच्छ गता। आयः । विच्छायति । विच्छायांचकार-विविच्छ ॥ इषु इच्छायाम् । गमां छः । इच्छति । इच्छेत् । इच्छतु । ॥ ऐच्छत् । इयेष । इयेषिथ । एषिता-एष्टा । ऐषीत् ॥ विश प्रवेशने। वेष्टा । अवि. क्षत् ॥ मृश आमर्शने । अम्राक्षीत्-अमासत्-अमृक्षत् ।रि पि गतौ । रियति । पियति । रेता। पेता ॥ धि धारणे । धियति ॥ क्षि निवासगत्योः। क्षियति । प्रेरणे । सुवति । सविता ॥ कृ विक्षेपे ॥ किराति । चकार, चकरतुः, चकरुः॥