________________
( ११२ )
सिद्धान्तचन्द्रिका |
[ आख्याते तुदादयः ]
ग्रन्थे । हभाते अदर्भीत् ॥ वृती हिंसाग्रन्थनयोः । वृतति । नृततृदतेर्ताद्वा । चर्तिष्यति चत्स्यति । अचर्तीत् ॥ विध विधाने । विधति । वेधिता ॥ लिख अक्षरविन्यासे । लिखति लेखिता ॥ कुट कौटिल्ये । कुटति । चुकोट ॥
(सुबोधिनी) - ऋच्छेर्नाम् ॥ ऋच्छतेराम् प्रत्ययो न लिटि । गुरुनामित्वादाम्प्राप्ते निषेधः ॥ ऋच्छेर्लिटि गुणः॥ ऋच्छतेर्गुणः स्याल्लिटि ॥ लुभ विमोहने । विमोहन - माकुलीकरणम् । इषसहोते वेट् । लोभिता = लोब्धा ॥ तृप्त तृम्फ तृप्तौ । कृषस्पृशमृशति सिविकल्पस्तु पौषादिकस्यैव ङस्यापवादत्वात् । तेनात्र नित्यं सिः । अतपत् ॥ तृम्फादीनामप्रत्यये नुम् । आदिशब्दः प्रकारे । तेन येऽत्र नकारानुषक्तास्ते तृम्फादयः । अप्रत्ययस्य ङित्वान्नो लोपः इति नलोपे कृते नुम् । तृम्फति । दृप हेम्फ उत्क्लेशे उत्क्लेशः पीडा । चृती हिंसाग्रन्थनयोः । ईदित्करणमादीदित इतीनिषेधार्थम् । यद्यप्यस्य वेटकत्वादिनिषेधः सिद्धयति तथापि क्वचिद्वे इत्यस्यानित्यतां ज्ञापयितुमीदित्करणम् तेन ' धावितमिभराजधिया ' इत्यादि सिद्धमिति ॥ नृततृदेति वै । चस्र्त्स्यति ॥ विध विधानं । विधानं करणम् ॥ कुट कौटिल्यै । कुटिलस्य भावः कौटिल्यं तस्मिन् ॥
(तत्त्वदी ० ) - गुरुना मित्वादाम्प्राप्त इत्याह--ऋच्छेरिति ॥ ह्रस्वच्छकारस्य द्वित्वे संयोगपरत्वालघूपधत्वाभावाद् गुणाप्राप्तौ लिटि गुण इति ॥
( कुटादेर्जिः प्रत्ययो ङित् ) चुकुटिथ । कुटिता । अक्कु-टीत् ॥ पुट संश्लेषणे । पुटति । पुपोट । अपुटीत् ॥ कुच संकोचने । कुचति । चुकोच | अकुचीत् ॥ गुज शब्दे । गुजति । गुजिता । अगुजीत् । गुड रक्षायाम् । गुडति । गुडिता । अगुडीत् ॥ कुड शब्दे | कुडति । कुडिता ॥ डिप क्षेपे । डिपिता ॥ छुर छेदे । कुरुछुरोर्न दीर्घः । छुर्यात् । छुरिता ।। स्फुट विकसने । स्फुटति ॥ मुट आक्षेपप्रमर्दनयोः । मुटति । मुमोट । मुटिता ॥ त्रुट छेदे । त्रुट्यति त्रुटति । तुत्रोट । त्रुटिता ॥ तु कलहकर्मणि । तुटति । तुटिता । तुटिष्यति ॥ चुट छुट छेदे । चुटिता । छुटाते। छुटिता॥जुट बन्धने । जुटति । जुटिता ॥ कड मदे । कति । अकडीत् ॥ लुठ संश्लेषणे । लुठति । लुठिता ॥ कुड घनत्वे । कृडिता ॥ कुड बाल्ये । कुडति ॥ पुड उत्सर्गे । पुडिता ॥ घुट प्रतीघाते । घुटिता ॥ स्फुर स्फुरणे । स्फुरिता ॥ स्फुल संचलने । स्फुलिता ॥
( सुबोधिनी ) - कुटादेर्किंणद्वजः प्रत्ययो ङित् ॥ कुटादेर्गणात्परः प्रत्ययो ङित् स्यात् ञितं णितं च वर्जयित्वा ॥ ङित्त्वान्न गुणः । चुकुटिथ ॥ छुर छेदने ।