________________
[ आख्याते तुदादयः ] टीकाद्वयोपेता ।
(१११) ऋषी गौ । ऋषति । आनर्ष ॥ ओवश्चू छेदने । वृश्चति । वव्रश्च, वव्रश्चतुः, वव्रश्चुः। वव्रश्चिथ-वव्रष्ठ। व्रश्चिता-व्रष्टा। ब्रश्चिष्यति-व्रक्ष्यति । अवश्चीत्-अव्राक्षीद, अव्राष्टाम् ॥ व्यच् व्याजीकरणे । विचति ।। विव्याच, विविचतुः। विच्यात् । व्यचिता । व्यचिष्यति । अव्याचीत् अव्यचीत् । उछि उञ्छे । उञ्छति । उञ्छांचकार । औञ्छीत् ॥ उच्छी विवासे । उच्छति । उच्छांचकार। औच्छीत् ॥ ऋच्छ गतीन्द्रियप्रलयमूर्तिभावेषु । ऋच्छति ॥ ___ (सुबोधिनी)--नुगशामिति नुक् । आनर्श। ओवश्चूछेदने । ग्रहामिति संप्रसारणम् । वृश्चति ॥ लिटि णबादौ पूर्वस्येत्यनेन पूर्वरेफस्य ऋकारः । ततो न संप्रसारणे संप्रसारणमिति परिभाषया निषेधात्सकृत्सूत्रं प्रवर्तते इति न्यायाद्वा पुनर्वस्य संप्रसारणं न वव्रश्च । उदितो वेति वेट् । वव्रश्चिथ । स्कोरिति सलोपः । छशषति पत्वं ष्टुत्वम् । वव्रष्ठ । ऊदितो वेतीटि अवश्चीत् ॥ इडभावे स्कोरिति सलोपः । छषेति षत्वं षढोरिति कः । ततः सस्य षत्वम् । अवाक्षीत् ॥ नन्वत्र शकारस्य कथं लोपः । उच्यत । "नकारजावनुस्वारपञ्चमी झलि धातुषु । सकारजः शकारश्च वर्गस्तवर्गजः॥१॥" इति । व्यच व्याजीकरणे । व्याजीकरणं छद्मकरणम् । ग्रहामिति संप्रसारणं णबादौ पूर्वस्यति पूर्वस्य संप्रसारणं च । विविचतुः। अतो हसादेरिति वा वृद्धिः। अव्याचीदअव्यचीत् ॥ उछि उञ्छे । उच्छी विवासे । स्वदेशं परित्यज्य देशान्तरे गमनं विवासः। संप्रति धातुपाठे इमौ भ्वादिगणे पठितौ । इह पुनः पाठस्तु उञ्छन्तीत्यत्र वादीपोः शतुरिति नुविकल्पार्थः । अप्प्रत्यये तु अप्यपोरान्नित्यमिति नित्यं नुम् । उञ्छन्ती ॥
(ऋच्छेर्नाम् ) (ऋच्छोर्लिटि गुणः)नुगशाम् । आनछु,आनर्छतुः । ऋच्छिता । उब्ज आर्जवे । उब्जांचकार ॥ उज्झ त्यागे । उज्झांचकार ॥ लुभ विमोहने । लुभति-लोभिता-लोब्धा । अलोभीत् ॥ तृप तृम्प तृफ तम्फ तृप्तौ । तृपति । अतीत् । (तफादीनामप्रत्यये नुम् ) तृम्फति ॥ तुप तुम्प तुफ तुम्फ हिंसायाम् । तुपति । तुतोप । अतोपीत् । तुम्पति । अतुम्पीत् । तुफति । तुतोफ । अतोफीत् । तुम्फति । तुतुम्फ। अतुम्फीत्॥ दृप दृम्फ उत्क्लेशे । दृपति । दृम्फति ॥ ऋफ ऋम्फ हिंसायाम् । ऋफति । ऋम्फति । ऋम्फांचकार ।। गुफ गुम्फ ग्रन्थे । गुफति गुम्फति । अगुम्फीत् ॥ उभ उम्भ पूरणे । उभति । उवोभ । औभीत् । उम्भति । उम्भांचकार । औम्भीत् ॥शुभ शुम्भ शोभार्थे । शुभति । अशोभीत् । शुम्भाति । अशुम्भीत् ॥ भी