________________
(११४)
सिद्धान्तचन्द्रिका। [ आख्याते तुदादयः ] : (सुबोधिनी)-गिर०॥गिरतेः रेफस्य लत्वं वा स्यात् स्वरे परे॥वृद्धृऋदन्तानां वोत वा इटो दीर्घः। गरिता-गरीता॥स्पृशकृषादनिां वेति वा रकारः । छशषेति षत्वं ष्टुत्वम् । स्प्रष्टा-स्पी । कृषस्पृशेति वा सिः । अनिटो नामिवत इति वृद्धिः । अस्माक्षीत्-अस्पार्षीत् । पक्षे हशषान्तादिति सक । अस्पृक्षत् ॥ प्रच्छ जीप्सायाम् । ज्ञातुमिच्छा ज्ञप्सिा । वुणप्रत्यये प्रच्छकः। षिद्भिदामङिति भिदादित्वादप्रत्यये संप्रसारणे च पृच्छा। ततो जिडित्करणे इति ज्यन्तात् वुण्प्रत्यये तु पृच्छकः । ग्रहामिति संप्रसारणम् । पृच्छति । ऋसंयोगादित्यकित्त्वान्न संप्रसारणम् ॥ पप्रच्छतुः। स्वरान्तादत्वत इति वेट् । पप्रच्छिथ-पप्रष्ठ । सृजिदृशोस्थपोवेति थाप वेटाससजिथ । रारो झसे दृशामिति रः। सस्रष्ठ ॥ टुमस्जो शुद्धौ । तितोऽथुः । मज्जथुः । श्चुत्वेन सस्य शः। झवे जबा इति शस्य जः। मज्जति । मस्जिनशोरिति नुम् । स्कोरिति सलोपः ॥ मङ्क्ता ॥ विच्छ ॥ तुदादिपाठसामर्थ्यादायप्रत्ययान्तादपि अन त्वा । तेन विच्छायन्तीति विच्छायतीत्यत्र वादीपोरिति नुविकल्पः । आय इत्यायप्रत्ययः। विच्छायाति । आयादयोऽनपि वेति वा आयः । कासादिप्रत्ययादित्याम् । यत इत्यलोपः। विच्छायांचकार ॥ इषु ॥ भाष्यवार्तिकमतेऽनुदित् । गमां छ इति छ। इच्छति । इषुसहेति वेटा एपिता-एष्टा ॥ विश प्रवेशने ॥ हशषान्तादिति सक् । अविक्षत् ॥ मृश आमर्शने । आमर्शनं स्पर्शः। कृषस्पृशमृशति वा सिः। कृषादीनां वेति वा । अम्राक्षीत्-अमाीत् ।हशषान्तादिति सक् । अमृक्षत्॥रि पि । नुधातोरितीय । रियति । पियति ॥कृ॥ऋत इती॥किरति । ऋसंयोगादित्याकित्त्वाद्गुणः । चकरतुः । वृद्धृऋदन्तानामिति वेटो दीर्घः। करिता-करीता ॥
( तत्त्वदी० )-गिरतेरिति व्यवस्थितविकल्पोऽयम् । तेन गल इति कण्ठे नित्यं विषे तु गर इत्यत्र न ॥ प्रच्छ ॥ अथ कथं 'वक्तारं पृच्छकं श्रोतृन्' इति । प्रच्छकमित्येव पाठ इति बहवः । पृच्छकमिति पाठे तु भिदादेराकृतिगणवादङिः पृच्छा तत्करोतीति ञ्यन्ताद्रुणि बोध्यम् ॥ विच्छ॥ तुदादिपाठसामर्थ्यादायप्रत्ययान्तादपि अ एव न त्वम्। तेन विच्छायती विच्छायन्तीत्यत्र वादीपोरिति नुम्विकल्पः। केचित्तु तुदादिपाठादिदमेव विकल्पयन्ति तन्मते तुदादिपाठस्य केवले 'विच्छती विच्छन्तीत्यत्र चरितार्थत्वादायप्रत्ययान्तादबेव न त्वः । तेन विच्छायन्तीत्यत्र नित्यमेव नुम् ! इषु ॥अनुदित्पाठस्तु भाष्यवार्तिकसंमतः ॥ रियतीति ॥ रि अ ति इति स्थिते उपधाया लघोरिति । गुणः प्राप्तो बहिरङ्गत्वान्निवारितः । तथा हि । इय् अकारापेक्षत्वेन अन्तरङ्गः अल्पाश्रितत्वात् । गुणस्तु अकारतिबपेक्षत्वेन बहिरङ्गः बलपेक्षत्वात् ॥
( उपात्किरतेः सुट् छेदेऽर्थे) (सुबोधिनी )-उपात्किरतेः सुट् छेदेऽर्थे । उपोपसर्गात् परस्य किरतेः सुडागमः स्यात् छेदे वाच्ये नान्यत्र ॥