________________
[ आख्याते तुदादयः ] टीकाद्वयोपेता।
( ११५) (हिंसायां प्रतेश्च ) उपस्किरति । प्रत्यस्किरत् ॥रुजोभङ्गे । अरौक्षीत् । अरौक्ताम् ॥ भुजो कौटिल्ये । भोक्ता । अभौक्षीत्, अभौक्ताम् ॥ छप स्पर्श । छोप्ता। अच्छौप्सीत् ॥ रुश रिश हिंसायाम् । रोष्टा, रोष्टारौ । अरुक्षत् ॥ रेष्टा । अरिक्षत् ॥ लिश गतौ । लेष्टा । अलिक्षत् ॥ खिद परिघाते । मुचादेर्मुम् । खिन्दति । खेत्ता । अखैत्सीत् ॥ पिश अवयवे । पिंशति । पेशिता ॥ इति पम् ॥॥ जुषी प्रीतिसेवनयोः । जुषते ॥ ओविजी भयचलनयोः। विजते ॥ ___ (सुबोधिनी)-हिंसायां प्रतेश्च ॥ उपात् प्रतेश्च किरतेः सुट स्यात् हिंसायाम् । अद्वित्वव्यवधानेपि मुटु कात्पूर्व इति वक्तव्यम् ॥ उपस्किरत् । उपचस्कार । 'उरोविदारं प्रतिचस्करे नखैः' इति माघः। कर्मणि लिट ॥ लिश् गतौ । हशपान्तादिति सक् । अलिक्षत् ॥ मुचादेरिति मुम् । खिन्दति । अयं दैन्येऽपि । दिवादौरुधादौ च वर्तते ॥ पिश अवयवे ॥ मुचादेरिति मुम् पिंशति । अयं दीपनायामपि । 'त्वष्टा रूपाणि पिंशतु' । दीपयत्वित्यर्थः ॥ इति मुबोधिन्यां पम् ॥ओविजी॥ प्रायेणायमुत्पूर्वः। द्विजते ॥ __ (विजेरिडादिप्रत्ययो ङित् ) विजिता ॥ ओलजी ओलस्जी ब्रीडे । लेजे ॥ ललज्जे । पृडू व्यायामे ॥
(सुबोधिनी)-विजेरिडादिप्रत्ययो डित्॥विजेः पर इडादिःप्रत्ययो ङित् । इह ओविजी तुदादिः रुधादिश्च गृह्यते न तु विजिर् पृथग्भाव इति जुहोत्यादिः व्याख्यानात् ॥ पृङ व्यायामे । प्रायेणायं व्यापर्वः ॥
अयकि || ऋतो रिङ्भवत्यकारे प्रत्यये यकि च ॥ नुधातोः । व्याप्रियते। व्यापरिष्यते । व्यापृत, व्यापृषाताम्॥मृङ् प्राणत्यागे ।
(सुबोधिनी)-अयकि ॥ निर्दिष्टत्वाहकारस्यैव रिङि सिद्धे डकारग्रहणं व्यवधानार्थम् । तेन ये इति न दीर्घः ॥
(म्रियतेललिङोश्चतुर्वेवात) म्रियते । ममार । ममर्थ । मृषीष्ट। अमृत ॥ दृङ् आदरे । आद्रियते । आदद्रे । आदृषीष्ट । आदर्ता । आहत ॥धृ अवस्थाने । ध्रियते । अध्रियत । लोपो द्वस्वाज्झसे । अधृत ॥ इति तुदादयः॥
(सुबोधिनी)-म्रियतेलुंलिङाश्चतुर्वेवात् ॥ मृङश्चतुर्यु लुलिङोश्च परत आत्मनेपदं स्यादन्यत्र पम् । अयकीति रिङ् । नुधातोरितीय । म्रियते । उरिति न